________________
२१०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे अधुना आधाकर्म, यद् आधाय निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तद् आधाकर्मेति । तच्च शब्द-स्पर्श-रस-रूप-गन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयाभिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्थासुखमयेष्वपि सुखाध्यारोपं विदधाति, तदुक्तम्
दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्क्तिरिवान्यरूपा, सारूप्यमेति विपरीतमतिप्रयोगात् ॥ [ ]
एतदुक्तं भवति–कर्मनिमित्तभूता मनोज्ञेतरशब्दादय एवाधाकर्मेत्युच्यन्त 20 इति ।
तपःकर्म तस्यैवाष्टप्रकारस्य कर्मणो बद्ध-स्पृष्ट-निधत्त-निकाचितावस्थस्यापि निर्जराहेतुभूतं बाह्या-ऽऽभ्यन्तरभेदेन द्वादशप्रकारं तपःकर्मेत्युच्यते ॥१९३।।
कृतिकर्म तस्यैव कर्मणोऽपनयनकारकम् अर्हत्-सिद्धा-ऽऽचार्योपाध्यायादिविषयमवनामादिरूपमिति ।
भावकर्म पुनरबाधामुल्लङ्घ्य स्वोदयेनोदीरणाकरणेन वोदीर्णाः पुद्गलाः प्रदेश-विपाकाभ्यां भव-क्षेत्र-पुद्गल-जीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कर्मोक्तम् । इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाऽधिकार इति गाथाशकलेन दर्शयति
___ अट्टविहेण उ कम्मेण एत्थ होई अहीगारो त्ति गाथा) कण्ठ्यमिति 20 गाथाद्वैयपरमार्थः ॥१९४-१९५॥
तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षिप्ते
१. ०गन्धादि, तथा हि ग । २. उक्तं च घ ङ। ३. नियमेषु च दुःख० ख । ४. विपरीतगति० कपुस्तकाद्विना । ५. निमित्त-भूतमनोज्ञे० ख । ६. तप:कर्मोच्यते ख ग च । ७. ०पाध्यायविषय० क ग घ ङ ०पाध्यायविषये अवनामादि० च । ८. चोदीर्णाः क-गप्रती विना । ९. "भव-क्षेत्र० इति भवविपाकिनीत्यादि' जै०वि०प० । १०. ०नोच्यन्ते । तदेवं ख । ११. ०णाधिकार: गाथा० ग । १२. होही ख । १३. ०द्वयसमासार्थः ख ।