________________
10
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २०९ साम्प्रतमीर्यापथिकम्, 'ईर गति-प्रेरणयोः' [*पा०]अस्माद्भावे ण्यत्, ईरणमीर्या, तस्याः पन्था ईर्यापथः, तत्र भवम् ईर्यापथिकम् । कश्चर्यायाः पन्था भवति ? यदाश्रिता सा भवतीति । एतच्च व्युत्पत्तिनिमित्तम्, यतस्तिष्ठतोऽपि तद् भवति, प्रवृत्तिनिमित्तं तु स्थित्यभावः, तच्चोपशान्त-क्षीणमोह-संयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तं च
केवली णं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेज्जा, पभू णं भंते ! केवली तेसु चेवागासपदेसेसु पडिसाहरित्तए ? नो इंणद्वे समटे । कहं ? केवलिस्स णं चलाइं सरीरोवगरणाइं भवंति, चलोवगरणत्ताए केवली नो संचाएति तेसु चेवागासपदेसेसुं हत्थं वा पायं वा पडिसाहरित्तए । [ ]
___ तदेवं सूक्ष्मेतरगात्रसञ्चाररूपेण योगेन, यत् कर्म बध्यते तद् ईर्यापथिकम्, ईर्याप्रभवमीर्याहेतुकमित्यर्थः । तच्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धम्, द्वितीये वेदितम् । तृतीयसमये तदपेक्षया चाकर्मतेति, कथमिति ? उच्यतेयतस्तत्प्रकृतित: सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिसटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायि, प्रदेशतः स्थूल-रूक्ष-शुक्लादि- 15 बहुप्रदेशमिति, उक्तं च
अप्पं बायर मउयं बहुं च लुक्खं च सुक्किलं चेव । मंदं महव्वयं ति य सायाबहुलं च तं कम्मं ॥ [ ]
अल्पं स्थितितः स्थितेरेवाभावात्, बादरं परिणामतः, अनुभावतो मृद्वनुभावम्, बहु प्रदेशैः, रूक्षं स्पर्शतः, वर्णेन शुक्लम्, मन्दं लेपतः स्थूल- 20 चूर्णमुष्टिमृष्टकुड्यापतितलेपवत्, महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलम् अनुत्तरोपपातिकसुखातिशायीति । उक्तमीर्यापथिकम् ।
★ 'ईर गतौ कम्पने च'-पा० धा० १०१८ । १. भवति ख च । २. ०सयोगिकेवलिनां घ ङ। ३. सयोगिकेवलिनोऽपि ग घ ङ। ४. तिष्ठतः सूक्ष्म० क घ ङ । ५. समये जेसु खचपुस्तके ऋते । ६. उग्गाहित्ता ख । ७. वहू ग । ८. इणमटे समढे ग घ च । ९. सरीरोवगरणार्ति ग ङ। १०. सूक्ष्मतरगात्र० क घ । ११. द्वितीयसमये वेदितम् ख च । १२. तृतीये तदपेक्षया ख-चपुस्तके विना । १३. परिशटति क-खप्रती विना । १४. चेय क ग । १५. चिय ख । १६. स्थितेरभावात् ग । १७. बहु च बहुप्रदेशैः ख च । १८. सातबहुलम् ग ङ ।