SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २०८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे षड्विधबन्धकस्य त्वायुः-मोहनीयवर्जः षोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्याष्टधेति । तत्राद्यसमयप्रयोगोपात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्प-बहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयति-तत्रायुषः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येकं नाम-गोत्रयोः परस्परं तुल्याः, तद्विशेषाधिकाः प्रत्येकं ज्ञान-दर्शनावरणा-ऽन्तरायाणाम्, तेभ्यो विशेषाधिका मोहनीये । ननु च तेभ्यो विशेषाधिका इत्यत्र निर्धारणे पञ्चमी, सा च ‘पञ्चमी विभक्ते' [पा० २-३४२] इत्यनेन सूत्रेण विधीयते, अस्य चायमर्थः-विभागो विभक्तं तत्र पञ्चमी विधीयमाना यत्रात्यन्तविभागस्तत्रैव भवति, यथा माथुरेभ्यः पाटलिपुत्रा अभिरूपतराः, इह च कर्मपुद्गलानां सर्वदैकत्वम्, तथाविधानामेव च बुद्ध्या 10 बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितम्, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा गवां गोषु वा कृष्णा सम्पन्नक्षीरतमेति ? । नैष दोषः, यत्रावधि-अवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैव षष्ठी-सप्तम्यौ 'यतश्च निर्धारणम्' [पा० २-३४१] इत्यनेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रा आढ्यतराः, कर्मवर्गणापुद्गलानां वेदनीये बहुतरा इति, यत्र तु 15 विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र पञ्चम्येव, यथा खण्डमुण्ड शबलशाबलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमेति, अतो नात्र विभागः कारणमविभागो वा, यतो माथुर-पाटलिपुत्रकादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठी-सप्तम्यौ भवतः, यत्र तु पुनर्माथुरादिविशेषोऽवधित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, 20 तदिह सत्यपि कर्मवर्गणानामेकत्वे तद्विशेषस्यावधित्वेनोपादानात् पञ्चम्येव न्याय्येति । तद्विशेषाधिका वेदनीये । उक्तः प्रदेशबन्धः, समुदानकर्मापीति । १. ०बन्धकस्त्वायु:० क, ०बन्धकस्यायुः० ख च । २. ०वर्व्यः क, ०वर्जं ग । ३. ०प्रयोगांता: ख च, ०प्रयोगात्ताः ग घ ङ । ४. ०समयेष स्वल्प० घ ङ । ५. व्यवस्थापयतीति क घ ङ । ६. परस्परतस्तु तुल्या: ख च । ७. पटलिपुत्रका ख ग, पाडलिपुत्रका च । ८. च इति कपुस्तके नास्ति । ९. तथावस्थानामेव ख ग च । १०. च इति क-गप्रत्योर्न वर्तते । ११. न्याय्या, यथा-ख । १२. पाटलिपुत्रका ख च । १३. इति इति खआदर्शो न वर्तते । १४. यत्र पुनर्विशेषवाची ख च । १५. तु इति ख-गप्रत्योास्ति ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy