________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २०७ तीर्थकरनाम्नां सागरोपमकोटाकोटी भिन्नाऽन्तर्मुहूर्तमबाधा । ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति ? उच्यते-उत्कृष्टात् सङ्ख्येयगुणहीनो जघन्य इति । यश:कीर्ति-उच्चैर्गोत्रयोरष्ट मुहूर्तानि, अन्तर्मुहूर्तमबाधा, देव-नारकायुषोर्दश वर्षसहस्राणि अन्तर्मुहूर्तमबाधा, तिर्यङ् मनुजायुषोः क्षुल्लकभवः, अन्तर्मुहूर्तमबाधेति, बन्धन-सङ्घातयोरौदारिकादि- 5 शरीरसहचरितत्वात् तद्गत एवोत्कृष्ट-जघन्यभेदोऽवगन्तव्य इति ।
उक्तः स्थितिबन्धः । अनुभावबन्धस्तूच्यते-तत्र शुभा-ऽशुभानां कर्मप्रकृतीनां प्रयोगकर्मणोपात्तानां प्रकृति-स्थिति-प्रदेशरूपाणां तीव्र-मन्दानुभावतयाऽनुभवनम् अनुभावः, स चैक-द्वि-त्रि-चतुःस्थानभेदेनावगन्तव्यः । तत्राशुभप्रकृतीनां कोशातकीरससमक्वाथ्यमानार्धत्रिभागपादावशेषतुल्यतया 10 तीव्रानुभावोऽवगन्तव्यः, मन्दानुभावस्तु जातिरसैक-द्वि-त्रि-चतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति । शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद् योजनीयः । अत्र च कोशातकीक्षुरसादा वुदक परमाण्वादिप्रक्षेपाद् व्यत्ययाद्वा भो दानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि, आनुपूर्व्यः क्षेत्रविपाकिन्यः, शरीर-संस्थाना-ऽङ्गोपाङ्ग-सङ्घात-संहनन-वर्ण-गन्ध-रस-स्पर्शा-ऽगुरुलघु- 15 उपघात-पराघात-[उच्छवास] -उदयोता-ऽऽतप-निर्माण-प्रत्येक-साधारणस्थिरा-ऽस्थिर-शुभा-ऽशुभरूपाः पुद्गलविपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इति उक्तोऽनुभावबन्धः ।
प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति । तत्र यदैकविधं बध्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः सातावेदनीयभावेन विपरिणमन्ते, 2c
१. ०कोटीकोटि: ख ग च । २. "भिन्ना इति प्रदेशरीत्या वेदनं भिन्नपूर्वकोटिं यावद् भवत्रये साक्षाद् दलिकवेदनम्' जै०वि०प० । ३. "आयुषोः इति त्रयस्त्रिंशत्'' जै०वि०प० । ४. ०मबधा, बन्धन० ग । ५. ०रौदारिकशरीर० क । ६. अनुभवः क ख । ७. ०नानुगन्तव्यः । च । ८. "जातिरसः सहजरसः" स०वि०प० । ९. ०दक क्षेपा० क । १०. ०वुदकबिन्द्वादि च। ११. “परमाणवः बिन्दवः'' जै०वि०प० । १२. "व्यत्ययाद् इति न जलनिक्षेप: किन्तु आवर्तनम्' जै०वि०प० ।। १३. "उद्योता-ऽऽताप० च । १४. ०बन्धापेक्षया ख । १५. सातवेदनीयभावेन परिणमन्ते ख ।