________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
संहननयोश्चतुर्दश, कुब्जसंस्थाना - ऽर्धनाराचसंहननयोः षोडश, वामनसंस्थानकीलिकासंहनन-द्वि-त्रि- चतुरिन्द्रियजाति - सूक्ष्माऽपर्याप्तक-साधारणानामष्टानामुत्तरप्रकृतीनामष्टादश, आहारक- तदङ्गोपाङ्ग-तीर्थकरनाम्नां सागरोपमकोटीकोटि : भिन्नाऽन्तर्मुहूर्तमबाधा, देव नारकायुषोरौधिकवत् तिर्यङ् - मनुष्या5 युषः पल्योपमत्रयम् पूँर्वकोटीत्रिभागोऽबाधा । उक्त उत्कृष्टः स्थितिबन्धः । जघन्य उच्यते—मत्यादिपञ्चक-चक्षुर्दर्शनाद्यावरणचतुष्क-सञ्ज्वलनलोभ-दानाद्यन्तरायपञ्चकभेदानां पञ्चदशानामन्तर्मुहूर्तम् अन्तर्मुहूर्तमेवाबाधा, निद्रापञ्चकासात वेदनीयानां षण्णां सागरोपमस्य त्रयः सप्तभागाः पल्योपमासङ्ख्येयभागन्यूनाः, सातावेदनीयस्य द्वादश मुहूर्ता: अन्तर्मुहूर्तमबाधा, 10 मिथ्यात्वस्य सागरोपमं पल्योपमासङ्ख्येयभागन्यूनम्, आद्यकषायद्वादशकस्य चत्वारः सप्तभागाः सागरोपमस्य पल्योपमासङ्ख्येयभागन्यूनाः, सञ्ज्वलनक्रोधस्य मासद्वयम्, मानस्य मासः, तदर्धं मायायाः पुंवेदस्याष्टौ संवत्सराः, सर्वत्रान्तर्मुहूर्तमबाधा, शेषनोकषाय-मनुष्य-तिर्यग्गति-पञ्चेन्द्रियजाति-औदारिकतदङ्गोपाङ्ग-तैजस-कार्मण - षट्संस्थान - षट्संहनन-वर्ण- गन्ध-रस-स्पर्श15 तिर्यङ् - मनुजानुपूर्वी - अगुरुलघु-उपघात - पराघात - उच्छ्वास -ऽऽतप-उद्योतप्रशस्ता-ऽप्रशस्तविहायोगति-यश: कीर्तिर्वर्जत्रसादिविशेतिकर्म-निर्माण- नीचैर्गोत्रदेवगत्यानुपूर्वीद्वय - नरक गत्यानुपूर्वीद्वय-वैक्रि यशरीर-तदङ्गोपाङ्ग-रूपाणामष्टषष्ट्युत्तरप्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ पॅल्योपमासङ्ख्येयभागन्यूनौ अन्तर्मुहूर्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसहस्रस्य द्वौ सप्तभागौ 20 पैल्योपमस्यासङ्ख्येयभागन्यूनौ अन्तर्मुहूर्तमबाधा, आहारक- तदङ्गोपाङ्ग
२०६
१. ० कोटीकोटी ग । २. " भिन्ना इति प्रदेशरीत्यावेदनं भिन्नपूर्वकोटिं यावत् भवत्रये साक्षाद् दलिकवेदनम्" जै०वि०प० । ३. " आयुषोः इति त्रयस्त्रिंशत्" जै०वि०प० । ४. पूर्वकोटि० ख च । ५. ० त्रिभागा० घ । ६. उत्कृष्टः । जघन्यः ग । ७. ०5साता० घ ङ च । ८. सातवेद० ख ग। ९. सागरस्य ख । १०. ० वर्ज्यत्रसा० क ग । ११. ० विंशतिक निर्माण० च । १२. चैत्राणां द्विषष्ट्युत्तरप्रकृतीनां सगरो० क घ ङ । १३. ० प्रकृतीनां देवद्विक-नरकद्विकवैयद्विका - ऽऽहारकद्विक यशः कीर्ति तीर्थकरनामरहितानां शेषनामप्रकृतीनाम्, तथा नीचैर्गोत्रस्य चेत्यासामुत्तरप्रकृतीनां सागरोपमस्य द्वौ च । १४. पल्योमस्यासङ्ख्येय० ख ग । १५. तु इति कप्रतौ नास्ति । १६. पल्योपमासङ्ख्येय० क - खप्रती ऋते ।
-