________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २०५ पाणवहादीसु रत्तो जिणपूया-मोक्खमग्गविग्घयरो ।। अज्जेइ अंतरायं ण लहइ जेणिच्छियं लाभं ॥ [ ]
स्थितिबन्धो मूलोत्तरप्रकृतीनामुत्कृष्ट-जघन्यभेदः । तत्रोत्कृष्टो मूलप्रकृतीनां ज्ञानावरणीय-दर्शनावरणीय-वेदनीया-ऽन्तरायाणां त्रिंशत्सागरोपमकोटीकोट्यः । यस्य च यावन्त्यः कोटीकोट्य: स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि 5 प्रदेशतो विपाकतो वाऽनुभवः । एतदेव प्रतिकर्मस्थिति योजनीयम्सप्ततिर्मो हनीयस्य, नाम-गोत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुषः पूर्वकोटीविभागोऽबाधा । जघन्यः-ज्ञान-दर्शनावरण-मोहनीया-ऽन्तरायाणामन्तर्मुहूर्तः, नाम-गोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, स चानापानसप्तदशभागः । साम्प्रतमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते-तत्रोत्कृष्टो 10 मति-श्रुता-ऽवधि-मन:पर्याय-केवलावरण-निद्रापञ्चक-चक्षुर्दर्शनादिचतुष्काऽसद्वेद्य-दानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोट्यः, स्त्रीवेद-सातवेदनीय-मनुजगत्यानुपूर्वीणां चतसृणां पञ्चदश, मिथ्यात्वस्यौघिकमोहनीयवत्, कषायषोडशकस्य चत्वारिंशत् कोटीकोट्यः, नपुंसकवेदा-ऽरति-शोक-भय-जुगुप्सा-नरक-तिर्यग्गति-एकेन्द्रिय-पञ्चेन्द्रिय- 15 जाति-औदारिक-वैक्रियशरीर-तदङ्गोपाङ्गद्वय-तैजस-कार्मण-हुण्डसंस्थानाऽन्त्यसंहनन-वर्ण-गन्ध-रस-स्पर्श-नरकानुपूर्वी-तिर्यगानुपूर्वी-अगुरुलघुउपघात-पराघात-उच्छासा-ऽऽतप-उद्द्योता-ऽप्रशस्तविहायोगति-त्रस-स्थावरबादर-पर्याप्तक-प्रत्येका-ऽस्थिरा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्ति-नीचैर्गोत्र-निर्माणरूपाणां त्रिचत्वारिंशत उत्तरप्रकृतीनां विंशतिः, पुंवेद- 20 हास्य-रति-देवगत्यानुपूर्वीद्वया-ऽऽद्यसंस्थान-संहनन-प्रशस्तविहायोगति-स्थिरशुभ-सुभग-सुस्वरा-ऽऽदेय-यश:कीति-उच्चैर्गोत्ररूपाणां पञ्चदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थान-द्वितीयसंहननयोर्द्वादश, तृतीयसंस्थान-नाराच
१. पाणवहाइसु रत्तो क । २. ०विग्घपरो ग । ३. कोटिकोट्यः ङ। ४. च इति खचप्रत्योरेव । ५. योजनीयमिति । सप्त० ख च । ६. "आयुषः इति पूर्वकोटीत्रि भागसमन्वितानि' जै०वि०प० । ७. ०मन्तर्मुहूर्तम् ख ग च । ८. ०मन:पर्यय० च । ९. वैक्रियतद० ग । १०. ०नरक-तिर्य० ग च ।