________________
२०२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे काययोगः सप्तधा-औदारिक-औदारिकमिश्र-वैक्रिय-वैक्रियमिश्रा-ऽऽहारकाऽऽहारकमिश्र-कार्मणयोगभेदात् । तत्र मनोयोगो मन:पर्याप्त्या पर्याप्तस्य मनुष्यादेः । वाग्योगो द्वीन्द्रियादीनाम् । औदारिकयोगः तिर्यङ्-मनुजयोः
शरीरपर्याप्तेरूंर्ध्वम् । तदारतस्तु मिश्रः, केवलिनो वा समुद्घातगतस्य द्वितीय5 षष्ठ-सप्तमसमयेषु । वैक्रियकाययोगो देव-नारक-बादरवायूनाम्, अन्यस्य वा
वैक्रियलब्धिमतः । तन्मिश्रस्तु देव-नारकयोरुत्पत्तिसमये, अन्यस्य वा वैक्रियं निवर्तयतः । आहारककाययोगश्चतुर्दशपूर्वविद आहारकशरीरस्थस्य । तन्मिश्रस्तु निर्वर्तनाकाले । कार्मणयोगो विग्रहगतौ केवलिसमुद्घाते वा तृतीय-चतुर्थ
पञ्चम-समयेष्विति । तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् 10 विहायोत्तप्तभाजनोदकवदुद्वर्तमानैः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बध्नाति तत् प्रयोगकर्मेत्युच्यते, उक्तं च
जाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा, नो णं अबंधए । [ ]
समुदानकर्म सम्पूर्वाद् आयूर्वाच्च ददातेगुंडन्तात् पृषोदरादिपाठेन 15 आकारस्योकारादेशेन रूपं भवति । तत्र प्रयोगकर्मणैकरूपतया गृहीतानां
कर्मवर्गणानां सम्यग् मूल-उत्तरप्रकृति-स्थिति-अनुभव-प्रदेशबन्धभेदेन आङ् मर्यादया देश-सर्वोपघातिरूपया तथा स्पृष्ट-निधत्त-निकाचितावस्थया च स्वीकरणं समुदानम्, तदेव कर्म समुदानकर्म । तत्र मूलप्रकृतिबन्धः ज्ञाना
वरणीयादिः । उत्तरप्रकृतिबन्धस्तूच्यते-उत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा 20 मति-श्रुता-ऽवधि-मन:पर्याय-केवलावरणभेदात्, तत्र केवलावारकं सर्वघाति,
शेषाणि देशघातीन्यपि । दर्शनावरणीयं नवधा-निद्रापञ्चक-दर्शनचतुष्टयभेदात्, तत्र निद्रापञ्चकं प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयं तु दर्शनलब्धि
१. वाग्योगोऽपि द्वी० क-खपुस्तके विना । २. ०रूर्द्धम् ख ग च । ३. चेयइ वलइ फं० ग । ४. छहव्विह० क । ५. ०रूपतया क-चप्रती ऋते । ६. शेषाणि सर्वाणि तु देश० ख । ७. देश-सर्वघातीन्यपि ग च ।