________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २०१ जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति । जघन्योत्कृष्टविशेषः पूर्ववत् । तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवतिअध्रुववर्गणोपरि प्रदेशवृद्ध्याऽनन्ता अपि न सम्भवन्तीति प्रथमा शून्यवर्गणा । तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघन्यात: क्षेत्रपल्योपमासङ्ख्येयभागगुणोत्कृष्टा । तदुपरि रूपोत्तरादिवृद्ध्या जघन्योत्कृष्टभेदा 5 अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यवर्गणात उत्कृष्टा त्वसङ्ख्येयलोकासङ्ख्येयभागप्रदेशगुणा, तदसङ्ख्येयभागोऽप्यसङ्ख्येयलोकात्मक इति द्वितीया शून्यवर्गणा । तदुपरि रूपादिवृद्ध्या बादरनिगोदशरीरवर्गणा, जघन्यात: क्षेत्रपल्योपमासङ्ख्येयभागप्रदेशगुणोत्कृष्टा । तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातोऽसङ्ख्येयगुणा । को गुणकार 163 इति ? उच्यते-अङ्गलासङ्ख्येयभागप्रदेशराशेरावलिकाकालसङ्ख्येयभागसमयप्रमाणकृतपौन:पुन्यवर्गमूलस्यासङ्ख्येयभाग प्रदेशप्रमाण इति । तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा सूक्ष्मनिगोदशरीरवर्गणा, जघन्यात उत्कृष्टाऽऽवलिकाकालासङ्ख्येयभागसमयगुणा । तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा चतुर्थी शून्यवर्गणा, जघन्यात उत्कृष्टा चतुरस्रीकृतलोकस्यासङ्ख्येयाः श्रेण्यः, 15 ताश्च प्रतरासङ्ख्येयभागतुल्या इति । तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जघन्यात उत्कृष्टा क्षेत्रपल्योपमस्यासङ्ख्येयगुणा सङ्ख्येयगुणा वेति । उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति !
साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रकर्षण युज्यत इति प्रयोगः । स च मनो-वाक्-कायलक्षणः पञ्चदशधा, कथमिति ? ) उच्यते-तत्र मनोयोगः सत्या-ऽसत्य-मिश्रा-ऽनुभयरूपश्चतुर्धा, एवं वाग्योगोऽपि,
१. शून्या वर्गणा क च, "शून्यवर्गणा इति परिणामपरिणताः कदाचिन्न प्राप्यन्ते' जे०वि०प० । २. ०त्कृष्टभेदः पू० ख । ३. सम्भवतीति ग ङ भवन्तीति च । ४. प्रथमशून्य० क ख । ५. ०भागप्रदेशगुणो० ग ङ च, घप्रतौ पाठत्रुटि: । ६. शून्या वर्गणा ग। ७. ०वर्गणा तदुत्कृष्टा क । ८. ०यभाग० घ च । ९. ०यप्रदेशात्मक इति ग । १०. रूपोत्तरादिवृद्धया ग। ११. जघन्यतो० च । १२. ०प्रदेशपरिमाण ख । १३. ०काल-सङ्ख्येय० घ ङ। १४. शून्यैव वर्गणा ख । १५. चेति क ख ग ।