________________
२००
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे वर्गणानन्तभागाधिकोत्कृष्टवर्गणा भवति । अत्राप्यनन्तभागस्यानन्तपरमाण्वात्मकत्वाद् भाषाद्रव्ययोग्यवर्गणानामानन्त्यमवसेयम्, तदनेनैकादिप्रदेशवृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिकं ज्ञातव्यम्, नवरं जघन्योत्कृष्टयोआंदोऽयम्-अभव्यानन्तगुणः सिद्धानन्तभागात्मकः। तासां च पूर्वहेतुकदम्बकादेव भाषाद्रव्या-ऽऽनापानद्रव्ययोरयोग्यत्वमवसेयम् । अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या । ततो रूपोत्तरवृद्ध्योत्कृष्टवर्गणान्ता अनन्ता भवन्ति । जघन्यात उत्कृष्टा जघन्यानन्तभागाधिका । तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदेनाग्रहणवर्गणा, विशेषस्त्वभव्येभ्यो
ऽनन्तगुणाः सिद्धानामननन्तभागः । पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्ध्या 10 जघन्योत्कृष्टभेदा मनोद्रव्यवर्गणा, जघन्यवर्गणानन्तभागो विशेषः । पुनरपि प्रदेशोत्तरवृद्ध्या क्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्तगुणादिकः । ताश्च प्रदेशबहुत्वाद् अतिसूक्ष्मत्वाच्च मनोद्रव्यायोग्याः, अल्पप्रदेशत्वाद् बादरत्वाच्च कार्मणस्यापि । तदुपरि रूपे प्रक्षिप्ते जघन्याः कार्मणशरीरवर्गणाः । पुनरप्येकैक
प्रदेशवृद्ध्या वर्धमाना उत्कृष्टां यावदनन्ता भवन्ति । अथ जघन्योत्कृष्टयोः कः 15 प्रतिविशेष इति ? उच्यते-जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा, स चानन्त
भागोऽनन्तानन्तपरमाण्वात्मकः अत एवानन्तानन्तभेदभिन्नाः कर्मद्रव्यवर्गणा एवं भवन्ति । आभिश्चात्र प्रयोजनम्, द्रव्यकर्मणो व्याचिख्यासितत्वादिति ।
शेषा अपि वर्गणाः क्रमायाता विनेयजनानुग्रहार्थं व्युत्पाद्यन्ते-पुनरप्युत्कृष्टकर्मवर्गणोपरि रूपादिप्रक्षेपेण जघन्योत्कृष्टभेदभिन्ना ध्रुववर्गणाः, जघन्याभ्य 20 उत्कृष्टाः सर्वजीवेभ्योऽनन्तगुणाः । तदुपरि रूपप्रक्षेपादिक्रमेणानन्ता एव जघन्योत्कृष्टभेदा अध्रुववर्गणाः, अध्रुवत्वाद् अध्रुवाः, पाक्षिकसद्भावाद् अध्रुवत्वम् । जघन्योत्कृष्टभेदोऽनन्तरोक्त एव । तदुत्कृष्टोपरि रूंपादिप्रवृद्ध्या
१. ०प्रदेशविधिप्रक्रमणा० क । २. सिद्धानामनन्त० ख । ३. तत्तो क । ४. ०गुण: ख । ५. प्रदेशवृद्ध्या ग । ६. प्रदेशोत्तरक्रमेणा० खप्रतिमृते । ७. वर्धमाना इति खआदर्श नास्ति। ८. उत्कृष्टा घ ङ च । ९. एवानन्तभेद० ग च । १०. ०म्, कर्मद्रव्यस्या( स्य?) व्याचि० ग । ११. रूपादिक्षेपेण क । १२. जघन्यात ग । १३. ०त्कृष्टभेदभिन्ना अध्रु० ङ। १४. रूपादिवृद्ध्या ख ।