________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः
एतदेवोत्कृष्टोपरि रूपप्रक्षेपयोग्यायोग्यादिकं वैक्रियशरीरवर्गणानां जघन्योत्कृष्टविशेषलक्षणं चावसेयम्, तथा वैक्रिया -ऽऽहारकान्तरालवर्त्ययोग्यवर्गणानां जघन्योत्कृष्टविशेषासङ्ख्येयगुणत्वमिति । पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपाद् जघन्याहारकशरीरयोग्यवर्गणा भवन्ति, ताश्च प्रदेशवृद्ध्या वर्धमाना उत्कृष्टां यावदनन्ता भवन्ति । अथ जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते - जघन्याभ्य 5 उत्कृष्टा विशेषाधिकाः । को विशेष: ? इति चेत्, जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुत्वाद् आहारकशरीरयोग्यवर्गणानां प्रदेशोत्तरवृद्धानामानन्त्यमिति भावना । तस्यामेवोत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहारकाग्रहणवर्गणाः, ततः प्रदेशवृद्ध्या वर्धमाना उत्कृष्टां यावदनन्ता एव, आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्या भवन्ति, बादरत्वाद् अल्पप्रदेशत्वाच्च तैजसस्येति । 10 जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते - जघन्याभ्य उत्कृष्टा अनन्तगुणाः, केन गुणकारेण ? इति चेत्, अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभाग इति । तदुपरि रूपे प्रक्षिप्ते तैजसशरीरवर्गणा जघन्याः, एता अपि प्रदेशवृद्ध्या वर्धमाना उत्कृष्टां यावदनन्ता भवन्ति । अथ जघन्योत्कृष्टयोः कियदन्तरम् ? जघन्याभ्य उत्कृष्टा विशेषाधिकाः, विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाद् 15 जघन्योत्कृष्टान्तरालवर्गणानामानन्त्यं भवति । तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति । एवमेकादिवृद्ध्योत्कृष्टान्ता अनन्ता:, ताश्चातिसूक्ष्मत्वाद् बहुप्रदेशत्वाच्च तैजसस्याग्रहणयोग्याः, बादरत्वाद् अल्पप्रदेशत्वाच्च भाषाद्रव्यस्यापीति । जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषः, गुणकारश्चाभव्येभ्योऽनन्तर्गुणः सिद्धानामनन्तभाग इति । तस्यामयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते 20 जघन्या भाषाद्रव्यवर्गणा भवति । तस्याश्च प्रदेशवृद्ध्या उत्कृष्टवर्गणापर्यन्तान्यनन्तानि स्थानानि भवन्ति । जघन्योत्कृष्टयोविशेषो जघन्य
१९९
-
१. ० विशेषानामसङ्ख्येय० ग । २. उत्कृष्टा क घ । ३. ०शरीरवर्गणानां क । ४. जघन्याहारकग्रहणवर्गणा, ततः ख, जघन्याहारकाग्रहणायोग्यवर्गणा, ततः ग घ ङ । ५. उत्कृष्टा क घ । ६. बहुतरप्रदेशत्वा० घ ङ । ७. ० त्वादयोग्या क, ०त्वाच्चायोग्या एव भवन्ति च । ८. ०गुणः ख । ९. उत्कृष्टा घ च । १०. कियदन्तरं भवति ? जघ० घ ङ । ११. तस्यानन्त० च । १२. जघन्योत्कृष्टवर्गणाना० ख । १३. ०गुणाः क खपुस्तके विना । १४. भवन्ति ग घ ङ ।