________________
१९८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे कर्मवर्गणान्त:पातिनः पुद्गलाः बन्धयोग्या बध्यमाना बद्धाश्चानुदीर्णा इति । नोद्रव्यकर्म कृषीवलादिकर्म । अथ कर्मवर्गणान्त:पातिनः पुद्गला द्रव्यकर्मेत्यवाचि, काः पुनस्ता वर्गणा इति सङ्कीर्त्यन्ते ? इह वर्गणाः सामान्येन
चतुर्विधाः-द्रव्य-क्षेत्र-काल-भावभेदात् । तत्र द्रव्यत एक-द्वयादिसङ्ख्येया5 ऽसङ्ख्येया-ऽनन्तप्रदेशिकाः, क्षेत्रतोऽवगाढद्रव्यैक-द्व्यादि-सङ्ख्ये या
ऽसङ्ख्ये यप्रदेशात्मिकाः, कालत एक-द्वयादिसङ्ख्ये या- ऽसङ्ख्येयसमयस्थितिकाः, भावतो रूप-रस-गन्ध-स्पर्शस्वगतभेदात्मिकाः, सामान्यतः । विशेषतस्तूच्यन्ते-तत्र परमाणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात्
सङ्ख्येयप्रदेशिकानां स्कन्धानां सङ्ख्येयाः, असङ्ख्येय-प्रदेशिकानाम10 सङ्ख्येयाः, एताश्चौंदारिकादिपरिणामाग्रहणयोग्याः । अनन्तप्रदेशिकानामप्यनन्ता
अग्रहणयोग्याः, ता उल्लङ्घय औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिका: खल्वनन्ता एव भवन्ति । तत्रायोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकशरीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृद्ध्या प्रवर्धमाना
औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति । अथ जघन्योत्कृष्टयोः को 15 विशेषः ? जघन्यात उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिक
जघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वाद् एकैकोत्तरप्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानां जघन्योत्कृष्टमध्यवर्तिनीनामानन्त्यम् ।
तत औदारिकयोग्योत्कृष्टवर्गणायां रूपप्रक्षेपेणायोग्यवर्गणा जघन्या भवति, एता अप्येकैकप्रदेशवृद्धयोत्कृष्टान्ता अनन्ता भवन्ति । जघन्योत्कृष्टवर्गणानां को 20 विशेषः ? जघन्याभ्योऽसङ्ख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वाद्
अतिसूक्ष्म परिणामत्वाच्च औदारिकस्यानन्ता एवाग्रहणयोग्या भवन्ति, अल्पप्रदेशत्वाद् बादरपरिणामत्वाच्च वैक्रियस्यापीति । अत्र च यथा यथा प्रदेशोपचयस्तथा तथा विश्रसापरिणामवशाद् वर्गणानां सूक्ष्मतरत्वमवसेयम् ।
१. ०स्तूच्यते ख ङ। २. ता इति क-घ-ङपुस्तकेषु न वर्तते । ३. "अयोग्य इति ग्रहणयोग्यवर्गणाभावात्" जै०वि०प० । ४. ग्रहणा ज० क । ५. जघन्यवर्गणा घ । ६. भवन्ति घ। ७. ०वर्गणां ख । ८. ०वर्गणानामजघन्यो० ख । ९. ०णायोग्या वर्गणा ङ । १०. भवन्ति ग च । ११. परिणामत्वाद् औदा० ख ।