SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः १९७ तदेवं कषायाः कर्मकारणत्वेनोक्ताः, तदपि संसारस्य, स च कतिविध: ? इति दर्शयति दव्वे खेत्ते काले भवसंसारे य भावसंसारे । पंचविहो संसारो जत्थेते सेंसरे, जीवा ॥१९२॥ देव्व खेत्ते का भवसंसारे य भावसंसारे । कम्मेण य संसारो तेण हिगारो इहं सुत्ते ॥ १९३॥ दव्वे खेत्ते० गाहा । द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः । क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति । कालसंसारः यस्मिन् काल इति । नारक-तिर्यङ् नरा-ऽमरगति-चतुर्विधानुपूर्व्युदयाद् भैवान्तरसङ्क्रमणं भवसंसारः । भावसंसारस्तु संसृतिस्वभाव औदयिकादिभावपरिणतिरूपः, तत्र च प्रकृति- स्थिति - अनुभाव - 10 प्रदेशबन्धानां प्रदेशविपाकानुभवनम् । एवं द्रव्यादिकः पञ्चविधः संसारः । अथवा द्रव्यादिकञ्श्चतुर्धा संसारः, तद्यथा - अश्वाद् हस्तिनम् ग्रामाद् नगरम्, वसन्ताद् ग्रीष्मम्, औदयिकाद् औपशमिकम् । इति गाथार्थः ॥१९२॥ तस्मिश्च संसारे कर्मवशगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाहणामं ठवणार्कम्मं च दव्वकम्मं पओगकम्मं च । समुयाण रियावहियं आहाकम्मं तवोकम्मं ॥१९४॥ किइकम्म भावकम्मं दसविह कम्मं समासओ होइ । अट्ठविहेण उ कम्मेण एत्थ होई अहीयारो ॥ १९५ ॥ 5 द्रव्यकर्म व्यतिरिक्तं द्विधा - द्रव्यकर्म नोद्रव्यकर्म च । तत्र द्रव्यकर्म १. जत्थ य ते सं० ञ । २. संसरति जिया, ख ज झ ठ । ३. गाथेयं कछप्रत्योर्नोपलभ्यते । ४. नरक० ग । ५. भवान्तरसंसरणं ख । ६. ०कम्मं दव्वं कम्मं ज झ । ७. समुयाणिरियावहियं । ८. दसविहमेयं समा० ञ । ९. होही ञ । १०. ०रूपस्थापना क । 15 नामं ठवणा० गाहा । किइकम्म० गाहा । नामकर्म कर्मार्थशून्यमभिधानमात्रम् । स्थापनाकर्म पुस्तक - पत्रादौ कर्मवर्गणानां सद्भावा-ऽसद्भाव रूंपा 20 स्थापना ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy