SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे प्रत्ययकषायाः कषायाणां ये प्रत्ययाः यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्ति-प्रत्यययोः कार्य-कारणगतो भेदः । आदेशकषायाः कृत्रिमकृतभृकुटीभङ्गादयः । रसतो रसकषायः कटु-तिक्तकषायपञ्चकान्तर्गतः । भावकषायाः शरीरोपधि-क्षेत्र-वास्तु-स्वजन-प्रेष्या-ऽर्थादिनिमित्ताविर्भूताः शब्दादिकामगुणकारणकार्यभूतकषायकर्मोदयादात्मपरिणामविशेषाः क्रोध-मानमाया-लोभाः । ते चैकैकशोऽनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरणसञ्चलनभेदेन भिद्यमानाः षोडशविधा भवन्ति । तेषां च स्वरूपाऽनुबन्धफलानि गाथाभिरभिधीयन्ते, ताश्चेमाः 15 जल-रेणु-पुढवि-पव्वयराईसरिसो चउब्विहो कोहो । तिणिसलया-कट्ठ-ऽट्ठियसेलयथंभोवमो माणो ॥ मायावलेहि-गोमुत्ति-मिंढसिंग-घणवंसमूलसमा । लोहो हलिद्द-खंजण-कद्दम-किमिरायसामाणो । पक्ख-चउमास-वच्छर-जावज्जीवाणुगामिणो कमसो । देव-नर-तिरिय-नारयगतिसाहणहेयवो भणिया ॥ [ ] एषां च नामाद्यष्टविधकषायनिक्षेपाणां कतमो नयः कमिच्छतीति ? एतदभिधीयते-तत्र नैगमस्य सामान्य-विशेषरूपत्वाद् नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादयः, सङ्ग्रह-व्यवहारौ तु कषायसम्बन्धाभावाद् आदेश-समुत्पत्ती नेच्छतः, ऋजुसूत्रस्तु वर्तमानार्थनिष्ठत्वाद् आदेश-समुत्पत्ति20 स्थापना नेच्छति, शब्दस्तु नाम्नोऽपि कथञ्चिद् भावान्तर्भावाद् नाम भावाविच्छतीति गाथातात्पर्यार्थः ॥१९१।। १. ०भृकुटी० ग । २. रसकषायाः ग । ३. ०कान्तर्गता: ग । ४. ०अप्रत्याख्यानावरण-प्रत्या० च । ५. ०राती० ख च । ६. कोधो ग च । ७. ०सेलत्थंभो० कप्रतेविना । ८. ०मेंढसिंग० ख च, ०मेंढिसिंग० ग । ९. ०घणवंसि० घ ङ। १०. हलिद्द-कद्दम-खंजणकिमि० खपुस्तक मृते । ११. ०गामिणो भणिया । ख । १२. किमिच्छतीति ग । १३. नैकगमकत्वाच्च ख, नैकगमत्वात् तद० घ ङ ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy