________________
२०३
साता
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः प्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति, शेषाणि तु देशतः । वेदनीयं द्विधा-ऽसातभेदात् । मोहनीयं द्विधा -दर्शन- चारित्रभेदात् । तत्र दर्शनमोहनीयं सप्तधा–अनन्तानुबन्धि-मिथ्यात्वादिभेदात्, बन्धतस्तु पञ्चधा । चारित्रमोहनीयं द्वादशकषाय-नवनोकषायभेदाद् एकविंशतिविधम् । अत्रापि मिथ्यात्वं सञ्ज्वलनवर्जा द्वादशकषायाश्च सर्वघातिन्यः, शेषास्तु देशघातिन्य इति । आयुष्कं 5 चतुर्धा-नारकादिभेदात् । नाम द्विचत्वारिंशद्भेदं गत्यादिभेदात्, त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात् । गतिश्चतुर्धा । जातिरेकेन्द्रियादिभेदात् पञ्चधा । शरीराणि औदारिकादिभेदात् पञ्चधा । औदारिक - वैक्रिया -ऽऽहारकभेदाद् अङ्गोपाङ्गं त्रिधा । निर्माणनाम सर्वजीवशरीरावयवनिष्पादकमेकधा । बन्धननाम औदारिकादिकर्मवर्गणैकत्वापादकं पञ्चधा । सङ्घातनाम औदारिकादिकर्मवर्गणा - 10 रचनाविशेषसंस्थापकं पञ्चधा । संस्थाननाम समचतुरस्त्रादि षोढा । संहनननाम वज्रऋषभनाराचादि षोढैव । स्पर्शोऽष्टधा । रसः पञ्चधा । गन्धो द्विधा । वर्ण: पञ्चधा । आनुपूर्वी नरकादिश्चतुर्धा । विहायोगतिः प्रशस्ता-: -ऽ प्रशस्तभेदाद् द्विधा । अगुरुलघु-उपघात-पराघाता - ऽऽतप-उद्द्योत - उच्छ्वास- प्रत्येक साधारण- त्रसस्थावर-शुभा -ऽशुभ-सुभग- दुर्भग- सुस्वर - दुःस्वर- सूक्ष्म - बादर-पर्याप्तका - 15 ऽ पर्याप्तक-स्थिरा-ऽस्थिरा -ऽऽदेया- ऽनादेय-यश: कीर्ति- अयश: कीर्तितीर्थकरनामानि प्रत्येकमेकविधानीति । गोत्रम् उच्च-नीचभेदाद् द्विधा । अन्तरायं दान- - 'लाभ- भोग-उपभोग-वीर्यभेदात् पञ्चधेति । उक्त: प्रकृतिबन्धः । बन्धकारणानि र्तुं गाथाभिरुच्यन्ते—–
१. दर्शनमोहनीयं त्रिधा - मिथ्यात्वादिभेदात्, बन्धतस्त्वेकविधम् । चारित्रमोहनीयं षोडशकषाय- नवनोकषायभेदात् पञ्चविंशतिविधम् । अत्रापि ख च, " पाठान्तरे - दर्शनमोहनीयं सप्तधा- अनन्तानुबन्धिमिथ्यात्वादिभेदात्, बन्धतस्तु पञ्चधा । चारित्रमोहनीयं द्वादशकषायनवनोकषायभेदाद् एकविंशतिविधम् ।" ख पुस्तके टिप्पणी । २. " पञ्चधि ( धा? ) रि(इ) ति सम्यक्त्व-मिश्रयोर्बन्धाभावात्" जै०वि०प० । ३. तत्रापि ग ङ । ४. ०वर्जद्वादश० क - घआदर्शा ऋते । ५. चोत्तरोत्तरभेदात् च । ६. ० विशेषस्थापकं ख । ७. ०दिभेदात् षो० ख । ८. वज्रर्षभ० ग । ९. ०दिभेदात् षो० ख । १०. नारकादि० च । ११. ० पर्याप्तास्थिरा० क घ। १२. ०स्थिरत्वा ऽऽदे० च । १३. ०लाभ-वीर्य-भोग-उपभोगभेदात् ख । १४. तु इति खप्रतौ नास्ति ।