________________
किञ्च, वृत्तेरेव पाण्डुलिपिः तेन लिखिता, न मूलसूत्राणि । अतोऽस्माभिः संशोधितात् श्रीमहावीरजैनविद्यालय-मुंबई इत्यतः विक्रम सं० २०३३ (इशवीये १९७७ वर्षे प्रकाशितात् आचाराङ्गसूत्रादुद्धृत्यात्र मूलसूत्राणि निवेशितानि, सूत्राङ्का अपि तदनुसारेणैवात्र निर्दिष्टाः ।
अन्यच्च, शीलाचार्यवृत्तौ ग्रन्थान्तरादुद्धृताः पर:शताः साक्षिपाठाः सन्ति, तेषां मूलस्थानानि पण्डितमहाशयेन न निर्दिष्टानि, समयाभावात् सामग्र्यभावाच्च नास्माभिरपि गवेषितानि । कानिचिदेव मूलस्थानानि यान्यस्माकं दृष्टिपथं सरलतया समवतीर्णानि तान्येवास्माभिः सूचितानि ।।
क्वचित् क्वचित् 'पं० अमृतभाई महाशयेन वृत्तौ स्वीकृताः पाठा न समुचिताः, किन्तु टिप्पणेषु निर्दिष्टाः पाठाः समीचीनतराः' इति अस्माकं मतिः, तथापि अस्माकमनभिमताः पाठा अपि परिवर्तनमकृत्वा तथैव स्थापिताः । केवलं त्रिचतुरेषु स्थानेषु परिवर्तनं विहितमस्माभिः ।
प्राथमिकमुद्रितपत्र (Proof) पठनादिषु अस्माकमनवधानादिना सञ्जातानशुद्धयादिदोषान् क्षाम्यन्तु सज्जना इति प्रार्थ्यते ।।
प्राथमिकमुद्रितपत्र(प्रूफ = Proof)पठने मम मातुः साध्वीजीश्री मनोहरश्रियः शिष्यायाः साध्वीजी श्री सूर्यप्रभाश्रियः शिष्यया साध्वीजी श्री जिनेन्द्रप्रभाश्रिया महत् साहायकमनुष्ठितमिति सा भूयो भूयो धन्यवादमर्हति ।
मम शिष्य-प्रशिष्य-प्रप्रशिष्यैः मुनिधर्मचन्द्रविजय-पुण्डरीकरत्नविजय-धर्मघोषविजय-महाविदेहविजय-नमस्कारविजयैरपि विविधरीत्या साहायकमनुष्ठितमिति तेऽपि धन्यवादमर्हन्ति ।
पं० अमृतलालभाई महोदयो दिवंगतः । यदि सोऽभविष्यत् तदा महती विस्तृता सुन्दरतरा च प्रस्तावना तेनाऽलेखिष्यत । परं किं कुर्मः ? । तस्येमं महापरिश्रमं ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च फलेग्रहिं कुर्वन्तु सज्जना इति प्रार्थनापूर्वकं परमात्मनः करकमले समर्प्यतेऽयं ग्रन्थः । भाद्रपदशुक्लैकादशी
पूज्यापादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कार२३-९-२००७
पूज्यापादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यरविवासरः
सद्गुरुदेव-तातपाद-पूज्यमुनिराज श्रीभुवनविजयान्तेवासी सुरेल (via विरमगाम)
मुनि जम्बूविजयः । (तालुका-पाटडी), (शकेश्वरतीर्थसमीपे) पिन - ३८२७८०