________________
श्रीसिद्धाचलमण्डनश्री ऋषभदेवस्वामिने नमः ।
श्रीशंखेश्वरपार्श्वनाथाय नमः ।
श्रीमहावीरस्वामिने नमः । अनन्तलब्धिनिधानाय श्रीगौतमस्वामिने नमः । आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्धेभ्यो नमः ।
आचार्यदेवश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः ।
द्वित्राः शब्दाः
पञ्चमगणधरदेवश्रीसुधर्मस्वामिसन्हब्धस्य परम्परायातस्य श्री आचाराङ्गसूत्रस्य प्रथम श्रुतस्कन्धस्य श्रीशीलाचार्य(प्रसिद्धनामशीलाङ्काचार्य)विरचिताया वृत्तेरध्ययनचतुष्टयात्मको भागो विविधान् हस्तलिखितानादर्शानवलम्ब्य पण्डित-अमृतलालमोहनलाल-गिरधरलालभोजकेन संशोधितो जैनागमरसिकानां पुरतः प्रकाश्यते ।।
स्व० आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाराजानां समीपे आ बाल्यकालाद् नैकानि वर्षाणि स्थित्वा पं० अमृतलालभाई महोदयेन प्राचीनग्रन्थसंशोधन-संपादनकला शिक्षिता । पू०म० पुण्यविजयजी महाभागानामयं गृहस्थशिष्य एवासीत् । मूलतोऽयं पाटणनगर [उत्तरगुजराते] निवास्यपि सम्प्रति अहमदाबादनगरे स्थायी सञ्जातोऽस्ति स्वकुटुम्बेन सह । विक्रम सं० २०२७ मध्ये पुण्यवि० महोदया मुम्बईनगरे दिवंगताः । तदनन्तरं कस्मिंश्चिदपि समये क ख ग घ आदीननेकान् हस्तलिखितादर्शानवलम्ब्य आचाराङ्गसूत्रवृत्तेरध्ययनचतुष्टयात्मकस्य अंशस्य पं० अमृतलालभाई महोदयेन महता महता परिश्रमेण संशोधनं विधाय लिखिता पाण्डुलिपिः (प्रेसकोपी) दृष्टा अस्माभिः । तस्यायं परिश्रमो विफलो मा भूदिति मत्वा टिप्पने तैनिर्दिष्टानां पाठभेदानां चोपयोगितां विभाव्य तत्संपादनाय प्रकाशनाय चास्माभिरुपक्रमो विहितः । इसवीये ४-३-२००० वर्षे विक्रमसं० २०५६ माघकृष्णत्रयोदश्यां शनिवासरे पं० अमृतभाई महोदयोऽपि दिवंगत इति क ख ग घ इत्यादि संकेतानां कोऽर्थ इति न वयं किमपि जानीमहे, न च पं० अमृतभाई महोदयेन कुत्रापि किमपि स्पष्टीकरणं विहितं दृश्यते, नापि कश्चित् तस्य सहकारी विद्यते यं वयं पृच्छामः ।