________________
१९४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
तच्च द्विधा - दर्शन- चारित्रमोहनीयभेदात् । एतदेवाहदुविहो य होइ मोहो दंसणमोहो चरित्तमोहोय । कामा चैरित्तमोहो तेण हिगारो इहं सुते ॥ १८९॥
दुविहो य होइ मोहो० गाहा । मोहनीयं कर्म द्विधा भवति-दर्शनमोहनीयं 5 चारित्रमोहनीयं चेति, बन्धहेतोद्वैविध्यात् । तथाहि - अर्हत् - सिद्ध-चैत्य-तपःश्रुत-गुरु-साधु-सङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म बध्नाति, येन चासावनन्तसंसारसमुद्रान्त:पात्येवावतिष्ठते, तथा तीव्रकषायबहुमोहराग-द्वेषाभिभूतः सन् देश-सर्वविरत्युपघाति चारित्रमोहनीयं कर्म बध्नाति । तत्राऽनन्तानुबन्धिमिथ्यात्व-सम्यग्मिथ्यात्व - सम्यक्त्वभेदात् दर्शनमोहनीयं सप्तधा, तथा 10 द्वादशकषाय-नवनोकषायभेदात् चारित्रमोहनीयमेकविंशतिधा । तत्र कामा: शब्दादयः पञ्च चारित्रमोह:, तेन चात्र सूत्रेऽधिकारः, यतः कषायाणां स्थानमत्र प्रकृतम्, तच्च शब्दादिकपञ्चगुणात्मकमिति गाथार्थः ॥ १८९॥
-
तत्र चारित्रमोहनीयोत्तरप्रकृतिस्त्री-पुं- नपुंसकवेद- हास्य-' - रंति-लोभाश्रितकामाश्रयिणः कषायाः संसारमूलस्य च कर्मणः प्रधानं कारणमिति 15 प्रचिकटयिषुराह -
संसारस्स उ मूलं कम्मं तस्स वि य होंति य कसाया ।
संसारस्य उ मूलमित्यादि । संसारस्य नारक - तिर्यङ्-नरा-ऽमरगतिसंसृतिरूपस्य कारणमष्टप्रकारं कर्म, तस्यापि कर्मणः कषायाः क्रोधादयो निमित्तं भवन्ति । १९० पूर्वार्द्धम् । तेषां च प्रतिपादितशब्दादिस्थानानां प्रचुरस्थानप्रति
१. इझ । २. चरित्तमोहा ख ज । ३. ० मोहनीयं च बन्ध० ख च । ४. ०बहुरागद्वेषमोहाभिभूतः: ख च । ५. सन् इति खआदर्शे नास्ति । ६. ० विरतेरुपघाति घ ङ । ७. तत्र मिथ्यात्व-सम्यग्मिथ्यात्व - सम्यक्त्वभेदात् त्रिधा दर्शनमोहनीयम्, तथा षोडशकषायनवनोकषायभेदात् पञ्चविंशति: ( तिधा ? ) चारित्रमोहनीयम् । तत्र कामाः च । ८. ०भेदात् सप्तधा दर्शनमोहनीयम्, तथा द्वादशकषाय- नवनोकषायभेदाद् एकविंशति: ( तिधा ? ) चारित्रमोहनीयम् । तत्र कामाः ख । ९. शब्दादिपञ्च० ग । १०. ०रति- अरति - लोभा० ग । ११. ०श्रयिणः षे( षो? [ डश ? ] कषाया: संसारमूलस्य च कर्मणो नव नोकषाय (या: ? ) प्रधानं ग