SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशक: १९३ जह सव्वपायवाणं० गाहा । यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः ॥ १८७॥ ननु च कथमेतत् श्रद्धेयं 'कर्मणः कषाया मूलम्' इति ? उच्यते-यतो मिथ्यात्वा -ऽविरति -प्रमाद - कषाय-योगा बन्धहेतवः, तथा चागमः जीवे णं भंते! कइहिं ठाणेहिं णाणावरणिज्जं कम्मं बंधइ ? गोयमा ! दोहिं 5 ठाणेहिं, तंजहा—रागेण य दोसेण य, रागे दुविहे - माया लोभे य, दोसे दुविहे - कोहे माणे य, एएहिं चउहिं ठाणेहिं वीरिओवगूहिएहिं णाणावरणिज्जं कम्मं बंध | [] एवमष्टानामपि कर्मणां योज्यमिति । ते च कषाया मोहनीयान्तःपातिनोऽष्टप्रकारस्य च कर्मणः कारणम्, मोहनीयं कामगुणानां च दर्शयति अट्ठविहकम्मरुक्खा सव्वे ते मोहणिज्जमूलागा । कामगुणमूलिया वा तम्मूलागं च संसारो ॥१८८॥ अट्ठविहकम्मरुक्खा० गाहा । यदवाचि प्राक् - इय कम्मपादवाणं, तत्र कतिप्रकारास्ते कर्मपादपा: किंकारणाश्चेति ? उच्यते-अष्टविधकर्मवृक्षाः, ते सर्वेऽपि मोहनीयमूलाः । न केवलं कषायाः, कामगुणा अपि मोहनीयमूला:, यस्माद् वेदोदयात् कामाः, वेदश्च मोहनीयान्तः पातीति, अतस्तन्मोहनीयं मूलम् 15 'आद्यं कारणं यस्य संसारस्य स तथा इति गाथार्थः ॥१८८॥ तदेवं पारम्पर्येण संसार- कषाय- कामानां कारणत्वाद् मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि– जह मत्थयसूईए, हयाए हम्मई तैलो । तह कम्माणि हम्मति मोहणिज्जे खयं गए ॥ [ ] 10 १. प्रतिष्ठानि क । २. कोहे य माणे य च । ३. चउट्टाणेहिं ख । ४. वीरिओवग्गहिएहिं ग घ ङ । ५. च इति चप्रतौ नास्ति । ६. मोहणीयमूलागा ञ । ७. ० मूलगं वा ख, ० मूलियं वा छ ज ० मूलियागं ( वा ? ) क झ ञ ठ । ८. यदवादि च । ९. किंकारणास्ते इति ग । १०. उच्यन्ते घ । ११. कामगुणाश्च मोह० चपुस्तकमृते । १२. कामः क । १३. आद्यकारणं ग । १४. प्रधानभावं भवति क । १५. तले ख । १६. तहा ग च । 20
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy