________________
१९२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे शब्दादिविषयानाश्रित्य च ते भवन्तीति दर्शयति
पंचसु काणगुणेसु य सद्द-प्फरिस-रस-रूव-गंधेसुं । जस्स कसाया वटुंति मूलठाणं तु संसारे ॥१८६॥
पंचसु० गाहा । तत्रेच्छानङ्गरूप: कामः, तस्य गुणा यानाश्रित्यासौ चेतसो 5 विकारमादर्शयति, ते च शब्द-स्पर्श-रस-रूप-गन्धाः, तेषु पञ्चस्वपि व्यस्तेषु
समस्तेषु वा विषयभूतेषु यस्य जन्तोर्विषयसुखपिपासोन्मुखस्याऽपरमार्थदर्शिनः संसाराभिष्वङ्गिणो राग-द्वेषतिमिरोपप्लुतदृष्टेमनोज्ञेतरविषयोपलब्धौ सत्यां कषायाः वर्तन्ते प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीति, अतः शब्दादिविषयोद्भूतकषायाः संसारे संसारविषयं मूलस्थानमेवेति, एतदुक्तं भवति10 रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्वभावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह
दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत् परिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवर-पूर्णचन्द्र-कलश-श्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते [ ]
द्वेष वा कर्कशशब्दादौ व्रजतीति । ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणां मूलस्थानम्, ते च संसारस्येति गाथातात्पर्यार्थः ।।१८६।।
यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति ? उच्यतेयतः कर्मस्थितेः कषाया मूलम्, साऽपि संसारस्य, संसारिणश्चावश्यम्भाविनः 20 कषाया इति । एतदेवाह
जह सव्वपायवाणं भूमीएँ पतिहिताणि मूलाणि । इय कम्मपायवाणं संसारपइट्ठिया मूला ॥१८७॥
15
१. ०गुणेसू सद्द० ख छ ज झ, ०गुणेसुं सद्द० ज । २. वटुंति ख, वट्टति मूलढाणं छ । ३. मूलढाणं क ख ज झ ठ । ४. यानाश्रित्य चासो ग च । ५. वा इति खपुस्तके नास्ति। ६. संसारे इति ङ चप्रत्योर्न । ७. एतदुक्तं भवति इति पाठः चआदर्श न वर्तते । ८. पयट्ठियाणि क, पइट्ठियाणि छ ज झ ठ, पडिट्ठियाइँ मूलाई ब । ९. पयट्ठिया ज ।