________________
s
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः १९१
अचलस्थानं तु चतुर्धा सादिसपर्यवसानादिभेदात्, तद्यथा-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानं जघन्यत एकं समयमुत्कृष्टतश्चासङ्ख्येयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम् वा, अनादिसपर्यवसानमतीताद्धारूपस्य, शैलेश्यवस्थान्त्यसमये कार्मण-तैजसशरीर-भव्यत्वानां चेति, अनाद्यपर्यवसानं धर्मा-ऽधर्मा-ऽऽकाशानामिति।
गणनास्थानम् एक-द्वयादिकं शीर्षप्रहेलिकापर्यन्तम् ।
सन्धानस्थानं द्विधा-द्रव्यतो भावतश्च । पुनरपि प्रत्येकं द्विधा-छिन्नाऽच्छिन्नभेदात् । तत्र द्रव्यच्छिन्नसन्धानं कञ्चुकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति । भावसन्धानमपि प्रशस्ता-ऽप्रशस्तभेदाद् द्वधा । तत्र प्रशस्ताच्छिन्नभावसन्धानमुपशम-क्षपकश्रेण्यावारोहतो जन्तोरपूर्वसंयमस्थानान्य- 10 च्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रवर्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुनरपि शुद्धपरिणामवतः तत्रैव गमनम् । अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुद्ध्यमानपरिणामस्यानन्तानुबन्धिमिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशाद् बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्य वा इति । 15 अप्रशस्तच्छिन्नभावसन्धानं पुनरौदयिक भावाद् औपशमिकादिभावान्तरसङ्क्रान्तौ सत्यां पुनस्तत्रैव गमनमिति । इह द्वारद्वयं यौगपद्येन व्याख्यातम् । तत्र सन्धानस्थानं द्रव्यविषयम्, इतरत् तु भावविषयमिति, उक्तं स्थानम् ॥१८५।। अथवा भावस्थानं कषायाणां यत् स्थानम् तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात् । तेषां किं स्थानम् ? यदाश्रित्य ते भवन्ति । 20
१. तु इति कपुस्तके नास्ति । २. मुत्कृष्टतस्त्वसङ्ख्येयं कालमिति ख । ३. सिद्धानाम्, अनादि० क । ४. वा इति ख-चप्रत्योर्न । ५. ०रूपं शैले० ख । ६. ०भव्यसत्त्वानां ग च । ७. वेति ख-गप्रती ऋते । ८. ०व्यादि शी० ख । ९. पुनरप्येकैकं द्विधा ग घ च । १०. ०श्रेण्यामारोहतो ग च । ११. ०स्थानान्येव भव० क । १२. तत्रैवागमनम् घ ङ। १३. ०मुपशमक्षपकश्रेण्या:( ण्योः [?] ख । १४. ०स्थानान्युत्तराण्यव० च । १५. ०ण्यवगाहत इति क, ०ण्यवगाहमानस्येति ख । १६. ०च्छिन्नसन्धानं ग च । १७. पुनरत्रैव क । १८. सन्धनास्थानं ख, सन्धानं द्रव्य० च । १९. इतरं तु ग । २०. यदाश्रित्य च ते भवन्तीति । तद दर्शयति ग च ।