________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे संयमस्थानं संयमः सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिसूक्ष्मसम्पराय-यथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्ख्येयानि संयमस्थानानि। कियदसङ्ख्यम् ? इति चेत्, अतीन्द्रियत्वादर्थस्य न साक्षान्निर्देष्टं शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्ख्येयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असङ्ख्येयगुणाः, ततोऽपि तत्कायस्थितिरसङ्ख्ये यगुणा, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्ख्येयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यते-सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धीनां प्रत्येकमसङ्ख्येय
लोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तौहूर्तिकत्वाद् 10 अन्तर्मुहूर्तसमयतुल्यान्यसङ्ख्येयानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवा
जघन्योत्कृष्टं संयमस्थानम् । अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्ख्येयसंयमस्थाननिर्वर्तितं कण्डकम्, तैश्चासङ्ख्येयैर्जनितं षट्स्थानकम्, तदसङ्ख्येयात्मिका श्रेणीति । 15 प्रग्रहस्थानं तु प्रकर्षण गृह्यते वचोऽस्येति प्रग्रहः ग्राह्यवाक्यो नायक
इत्यर्थः, स च लौकिको लोकोत्तरश्च, तस्य स्थानं प्रग्रहस्थानम् । लौकिकं तावत् पञ्चविधम्, तद्यथा-राजा युवराजो महत्तरोऽमात्यः कुमारश्चेति । लोकोत्तरमपि पञ्चविधम्, तद्यथा-आचार्योपाध्याय-प्रवति-स्थविर- गणावच्छेदकभेदादिति ।
योधस्थानं पञ्चधा, तद्यथा-आलीढ-प्रत्यालीढ-वैशाख-मण्डलसमपादभेदात् ।
१. ०विशुद्धिक-सू० ख, विशुद्धीय-सू० ङ। २. रूपः पञ्चविधः, तस्य पञ्च० ख । ३. किं तदसङ्ख्यम् ? ग च, कियदसङ्ख्येयम् ? ङ । ४. विशेषस्तूच्यते ङ । ५. विशुद्धीयानां ख घ ङ । ६. ०रायस्यान्तौ० क, ०रायस्यान्तर्मुहूर्तिकत्वाद् ग च । ७. यथाख्यातचारित्रस्य ख । ८. अथ संयम० क । ९. तु इति खप्रतौ नास्ति । १०. "लोइयं पंचविहं-राय-जुवराय-सेणावइ-महत्तर-अमच्च-कुमारा [?]" चूर्णौ । ११. पञ्चविधमेव, तद्यथा ख । १२. ०प्रवृत्ति० ग च । १३. ०गणावच्छेदिभेदादिति ग च । १४. तद्यथा-लीढ-प्रत्या० क ग च ।
20