________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः १८९ नाम ठवणा दविए खेत्तऽद्धा उड्ड उवरई वसही । संजम पग्गह जोहे अचल गणण संधणा भावे ॥१८५॥
नामं ठवणा० गाहा । तत्र द्रव्यस्थानं ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ता-ऽचित्त-मिश्राणां स्थानम् आश्रयः ।
क्षेत्रस्थानं भरतादि, ऊर्ध्वा-ऽध:-तिर्यग्लोकादि वेति, यत्र वा क्षेत्रे स्थानं 5 व्याख्यायत इति ।
अद्धा कालः, तत्स्थानं द्विधा-कायस्थिति-भवस्थितिभेदात् । तत्र कायस्थितिः पृथिव्यप्-तेजो-वायूनामसङ्ख्ये या उत्सर्पिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणां सङ्ख्येया वर्षसहस्राः, पञ्चेन्द्रियतिर्यङ्-मनुजानां सप्ताऽष्टौ वा भवाः । भवस्थितिस्तु वायूदक-वनस्पति- 10 पृथिवीनां त्रि-सप्त-दश-द्वाविंशतिवर्षसहस्रात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यङ्-मनुष्याणां त्रीणि पल्योपमानि, देवानां नारकाणां च कायस्थितेरभावाद् भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति । इयमुत्कृष्टा द्विरूपाऽपि । जघन्या तु सर्वेषामन्त- 15 मुहूर्तात्मिका, नवरं देव-नारकयोर्दश वर्षसहस्राणीति । अथवा अद्धास्थानं समया-5ऽवलिका-मुहूर्ता-ऽहोरात्र-पक्ष-मास-ऋतु-अयन-संवत्सर-युगपल्योपम-सागरोपम-उत्सर्पिणी-अवसर्पिणी-पुद्गलपरावर्ता-ऽतीता-ऽनागतसर्वाद्धारूपमिति ।
उर्ध्वस्थानं तु कायोत्सर्गादिकम्, अस्योपलक्षणत्वाद् निषण्णाद्यपि 20 गृह्यते । उपरतिः विरतिः, तत्स्थानं देशे सर्वत्र च श्रावक-साधुविषयम् ।
वसतिस्थानं यो यत्र ग्राम-गृहादौ वसति ।
१. जोए ख झ । २. गणणे क । ३. ० ० ख ग च । ४. चेति कप्रतिमृते । ५. इति इति क-खआदर्शयोरेव । ६. ०याणामसङ्ख्येया ख-ड-प्रती विना । ७. देव-नारकाणां ख । ८. ०नारकाणां दश ख । ९.०वलिक-म० क । १०. उर्द्ध० ख ग च ।