SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः १८७ पारिणामिकयोरेव सम्भवति नान्येषाम् । तत्रैौदयिकस्तावद् उदये भव औदयिकः, स चाजीवाश्रयोऽनया विवक्षया, यदुत काश्चित् प्रकृतयः पुद्गलविपाकिन्य एव 'भवन्ति, काः पुनस्ताः ? उच्यन्ते - औदारिकादीनि शरीराणि पञ्च, षट् संस्थानानि, त्रीण्यङ्गोपाङ्गानि षट् संहननानि, वर्णपञ्चकम्, गन्धद्वयम्, पञ्च रसाः, अष्टौ स्पर्शाः, अगुरुलघुनाम उपघातनाम पराघातनाम उद्योतनाम आतपनाम निर्माणनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वा अपि पुद्गलविपाकिन्यः सत्यपि जीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति । पारिणामिकोऽजीवगुणस्तु द्वेधा - अनादिपारिणामिकः सादिपारिणामिकश्चेति । तत्रानादिपारिणामिको धर्मा -ऽधर्मा - ऽऽकाशानां गतिस्थित्यवगाहलक्षणः, सादिपारिणामिकस्त्वथ्रेन्द्रधनुरादीनां परमाणूनां च वर्णादि- 10 गुणान्तरापत्तिरिति गाथातात्पर्यार्थः ॥१८२॥ उक्तो गुणः । मूलनिक्षेपार्थमाह मूले छक्क देव्वे ओदइ - उवएस-आइमूलं च । खेत्ते काले मूलं भावे मूलं भवे तिविहं ॥१८३॥ 5 मूले छक्कं० गाहा । मूलस्य षोढा निक्षेप::- नाम - स्थापना- द्रव्य- - क्षेत्रकाल-भावभेदात् । नाम - स्थापने क्षुण्णे । द्रव्यमूलं ज्ञशरीर- भव्यशरीरव्यतिरिक्तं 15 त्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति । तंत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि । उपदेशमूलं यत् चिकित्सको रोगप्रतिघातसमर्थं मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकम् । आदिमूलं नाम यद् वृक्षादिमूलोत्पत्तावाद्यं कारणम्, तेंद् यत् स्थावरनामगोत्रप्रकृतिप्रत्ययाद् मूलनिर्वर्तनोत्तैरप्रकृतिप्रत्ययाच्च मूलमुत्पद्यते, एतदुक्तं भवति - तेषामौदारिक- 20 शरीरत्वेन मूलनिर्वर्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाद्यं कारणम् । क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्पद्यते व्याख्यायते वा । एवं कालमूलमपि, यावन्तं १. सम्भवन्ति ख । २. ०नाम च एताः घ ङ । ३. पारिणामिकाऽजीव० ख घ ङ । ४. ० निक्षेपमाह ख । ५. दव्वे उदए उव० ख ठ, दव्वे उदय उव० ञ । ६. गतार्थे ख ग च। ७. तच्चौदयिक० क । ८. यत् इति कप्रतौ नास्ति । ९. ०प्रतिरोत ( ध ) समर्थं क । १०. पिष्पली० ङ च । ११. यद् यत् ख । १२. ०त्तरोत्तरप्रकृति० कप्रतेर्विना । १३. कार्मणशरीर० ख |
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy