________________
१८६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
भवगुणो नाम भवन्ति उत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः । स च जीवविषयः, तद्यथा-नारकास्तीव्रतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च
सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तः, गवादीनां च तृणादि5 कमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्मक्षयः, देवानां च सर्वशुभानुभावो भवगुणादेवेति ।।
___ शीलगुणो नाम परैराक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभनेऽशोभने वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते । 10 भावगुणो नाम भावाः औदयिकादयः तेषां गुणो भावगुणः । स च जीवा
ऽजीवविषयः । तत्र जीवविषय औदयिकादिः षोढा । तत्रौदयिक: प्रशस्तोऽप्रशस्तश्च, तीर्थकरा-ऽऽहारकशरीरादिः प्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोग-हास्य-रत्यरतीत्यादिः । औपशमिक उपशम श्रेण्यन्तर्गता
युष्कक्षयानुत्तरविमानप्राप्तिलक्षणः तथा सत्कर्मानुदयलक्षणश्चेति । क्षायिक15 भावगुणश्चतुर्धा, तद्यथा-क्षीणसप्तकस्य पुनर्मिथ्यात्वाऽगमनम् १ क्षीणमोहनीय
स्यावश्यम्भाविशेषघातिकर्मक्षयः २, क्षीणघातिकर्मणोऽनावरणज्ञान-दर्शनाविर्भाव: ३, अपगताशेषकर्मणोऽपुनर्भवस्तथाऽऽत्यन्तिकैकान्तिकानाबाधपरमानन्दलक्षणसुखावाप्तिश्चेति ४। क्षायो पशमिकः क्षायोपशमिकदर्शनाद्यवाप्तिरिति ।
पारिणामिको भव्यत्वादिरिति । सान्निपातिकस्त्वौदयिकादिपञ्चभावसमकाल20 निष्पादितः, तद्यथा-मनुष्यगत्युदयाद् औदयिकः, सम्पूर्णपञ्चेन्द्रियत्वावाप्ते:
क्षायोपशमिकः, दर्शनसप्तकक्षयात् क्षायिकः, चारित्रमोहनीयोपशमाद् औपशमिकः, भव्यत्वात् पारिणामिक इति ।
उक्तो जीव[भाव]गुणः । साम्प्रतमजीवभावगुणः, स चौदयिक
१. च इति कपुस्तके नास्ति । २. शुक्लभावे० घ । ३. सर्वे शुभानुभावा घ ङ । ४. परैराक्रम्यमानोऽपि क । ५. क्रोधवशगो ख घ ङ । ६. गुणो नाम भाव० ग च । ७. भव्यत्वादिः । सान्नि० ख । ८. ०मजीवगुणः क।