________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः १८५ परमाण्वन्तं भेदं ददाति, परमाणुरप्येकगुणकृष्णद्विगुणकृष्णादिनाऽनन्तशोऽपि भिद्यमानो भेददायीति ।
गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि राशेर्गणनागुणेनेयत्ताऽवधार्यते ।
करणगुणो नाम कलाकौशलम्, तथाहि-उदकादौ करणपाटवार्थं गात्रो- 5 तक्षेपादिकां क्रियां कुर्वन्तीति ।
___ अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा-तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति, यदि वाऽभ्यासवशात् सन्तमसेऽपि कवलादेर्मुखविवरप्रक्षेपाद् व्याकुलितचेतसोऽपि च तुदद्गात्रकण्डूयनमिति ।
10 गुणागुणो नाम गुण एव कस्यचिदगुणत्वेन विपरिणमते, यथा-आर्जवोपेतस्य ऋजुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तं च
शाठ्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम्, शूरे निघृणताऽऽर्जवे विमतिता दैन्यं प्रियाभाषिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत् को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्नाङ्कितः ॥ [ नीतिशतक-५४]
अगुणगुणो नाम अगुण एव कस्यचिद् गुणत्वेन विपरिणमते । स च वक्रविषयः, यथा-गौर्गलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा
15
20
गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः सुखं जीवति गौर्गलिः ॥ [
]
१. द्विकादिरूपः, तेन ख ग च । २. ०धार्यत इति ख । ३. गात्रोपक्षेपादिकां ग च । ४. कुर्वन्ति ख ग च । ५. भवाभ्यासात् ख, भवान्तराभ्यासतः घ ङ । ६. वाऽभ्यासात् ख ।
याकलीकतचेतसोऽपि ख । ८. नाम तत्र गण क ग च । ९. निघणता ऋजौ विम० ग च । १०. एव च कस्यचिद् घ ङ। ११. यथा इति कप्रतौ न वर्तते । १२. किणो गोगणस्य ख । १३. दोर्जन्याद् ख ग च ।