SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः १८५ परमाण्वन्तं भेदं ददाति, परमाणुरप्येकगुणकृष्णद्विगुणकृष्णादिनाऽनन्तशोऽपि भिद्यमानो भेददायीति । गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि राशेर्गणनागुणेनेयत्ताऽवधार्यते । करणगुणो नाम कलाकौशलम्, तथाहि-उदकादौ करणपाटवार्थं गात्रो- 5 तक्षेपादिकां क्रियां कुर्वन्तीति । ___ अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा-तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति, यदि वाऽभ्यासवशात् सन्तमसेऽपि कवलादेर्मुखविवरप्रक्षेपाद् व्याकुलितचेतसोऽपि च तुदद्गात्रकण्डूयनमिति । 10 गुणागुणो नाम गुण एव कस्यचिदगुणत्वेन विपरिणमते, यथा-आर्जवोपेतस्य ऋजुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तं च शाठ्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम्, शूरे निघृणताऽऽर्जवे विमतिता दैन्यं प्रियाभाषिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत् को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्नाङ्कितः ॥ [ नीतिशतक-५४] अगुणगुणो नाम अगुण एव कस्यचिद् गुणत्वेन विपरिणमते । स च वक्रविषयः, यथा-गौर्गलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा 15 20 गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः सुखं जीवति गौर्गलिः ॥ [ ] १. द्विकादिरूपः, तेन ख ग च । २. ०धार्यत इति ख । ३. गात्रोपक्षेपादिकां ग च । ४. कुर्वन्ति ख ग च । ५. भवाभ्यासात् ख, भवान्तराभ्यासतः घ ङ । ६. वाऽभ्यासात् ख । याकलीकतचेतसोऽपि ख । ८. नाम तत्र गण क ग च । ९. निघणता ऋजौ विम० ग च । १०. एव च कस्यचिद् घ ङ। ११. यथा इति कप्रतौ न वर्तते । १२. किणो गोगणस्य ख । १३. दोर्जन्याद् ख ग च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy