SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे देवकुरु० गाहा । क्षेत्रगुणे देवकुर्वादि । कालगुणे सुषमसुषमादिः । फलगुणे सिद्धिः । पर्यवगुणे निर्भजना । गणनागुणे द्विकादि । करणगुणे कलाकौशल्यम् । अभ्यासगुणे भोजनादि । गुणागुणे ऋजुता । अगुणगुणे वक्रता । भवगुण-शीलगुणयोर्भावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वाद् गाथायां 5 पृथगनुपादानम् । भवगुणो जीवस्य नारकादिर्भवः । शीलगुणो जीव एव क्षान्त्याद्युपेतः । भावगुणो जीवा-ऽजीवयोरिति । एवं संयोज्यैकैकं व्याख्यायते ___ तत्र देवकुरूत्तरकुरु-हरिवर्ष-रम्यक-हैमवत-हैरण्यवत-षट्पञ्चाशदन्तरद्वीपका-ऽकर्मभूमीनामयं गुणः, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदा ऽवस्थितयौवना निरुपक्रमायुषो मनोज्ञशब्दादिविषयोपभोगिनः स्वभावमार्दवा10 ऽऽर्जव-प्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति । कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासु स एव सदाऽवस्थितयौवनादिरिति । फलमेव गुणः फलगुणः । फलं च क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शन-ज्ञान-चारित्ररहिताया ऐहिका-ऽऽमुष्मिकार्थं प्रवृत्ताया अनात्यन्तिको15 ऽनै कान्तिको भवन् फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शन-ज्ञान चारित्रक्रि यायास्त्वैकान्तिका-ऽऽत्यन्तिका-ऽनाबाधसुखाख्यसिद्धिफलगुणोऽवाप्यते, एतदुक्तं भवति-सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिकसुखफलाभास एव फलाध्यारोपाद् निष्फलेत्यर्थः। पर्यायगुणो नाम द्रव्यस्यावस्थाविशेषः पर्यायः, स एव गुणः पर्यायगुणः, गुण-पर्याययोर्नयवादान्तरेणाभेदाभ्युपगमात् । स च निर्भजनारूपः, निश्चिता भजना निर्भजना, निश्चितो भाग इत्यर्थः, तथाहि-स्कन्धद्रव्यं देश-प्रदेशेन भिद्यमानं १. "निर्भजनां( ना) निरंशोऽशः सत्कर्म" जै०वि०प० । २. भव-शील० ख । ३. संयोज्यैकैको च । ४. व्याख्यायन्ते क । ५. ०ऐरण्यवत० ख च । ६. ०द्वीपा-ऽकर्म० ख । ७. ०प्यगुणो भवति क घ ङ । ८. एतदुक्तं भवति इति पाठः कआदर्श नास्ति । ९. सुखाभास ख । १०. पर्यवगुणो क।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy