________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः १८३
संकुचिय० गाहा । जीवो हि संयोगिवीर्यसāव्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कचति विकसति च । एष जीवस्यात्मभूतो गुणः, भेदं विनाऽपि षष्ठ्युपलब्धः, तद्यथा-राहोः शिरः, शिलापुत्रकस्य शरीरमिति । तद्भव एव वा सप्तसमुद्घातवशात् सङ्कचति विकसति च । सम्यक् समन्ततः उत् प्राबल्येन हननम् इतश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुद्घातः । स च 5 कषाय-वेदना-मारणान्तिक-वैक्रिय-तैजसा-ऽऽहारक-केवलिसमुद्घातभेदात् सप्तधा । तत्र कषायसमुद्घातोऽनन्तानुबन्धिक्रोधाद्युपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेप इति । एवं तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः । मारणान्तिकसमुद्घातो हि मुमूर्षोरसुमत आदित्सितोत्पत्तिप्रदेशे आ लोकान्तादात्मप्रदेशानां भूयो भूयः प्रक्षेप-संहाराविति । वैक्रियसमुद्घातो वैक्रियलब्धिमतो 10 वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः । तैजससमुद्घातस्तैजसशरीरनिमित्ततेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति । आहारकसमुद्घातश्चतुर्दशपूर्वविद आहारकलब्धिमतः क्वचित् सन्देहापगमनाय तीर्थकरान्तिकगमनार्थमाहारकशरीरमुपादातुं बहिरात्मप्रदेशप्रक्षेपः । केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तर्नीतान्यसमुद्घातं नियुक्तिकार: स्वत एवाचष्टे-पूरयति व्याप्नोति, 15 हन्दि इत्युपप्रदर्शने, किम् ? लोकं चतुर्दशरज्ज्वात्मकमाकाशखण्डम्, कुतः? बहुप्रदेशगुणत्वात्, तथाहि-उत्पन्नदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्यं दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तम्-दंड कवाडे मंथंतरए [ ] त्ति गाथार्थः ॥१८१॥ गतो द्रव्यगुणः । क्षेत्रादिकमाह
देवकुरु सुसमसुसमा सिद्धी णिब्भय ढुंगादिया चेव । 20 कल भीयणुज्ज(ज्जु ) वंके जीवमजीवे य भावम्मि ॥१८२॥
१. “सयोगिवीर्यः इति सयोगीनि सचेष्टानि वीर्येण कृत्वा(ता)नि सन्ति विद्यमानानि द्रव्याणि मनो-वाक्-कायपरिणतपुद्गलस्कन्धलक्षणानि यस्य तथा, तद्भावः तत्ता, तया ।" जै०वि०प० । २. ०पि लब्ध्युपलब्धेः ख । ३. ०तोत्पत्तिप्रदेशेन आ० ग । ४. निमित्तं तेजो० क-खपुस्तके विना । ५. ०गमाय ग । ६. ०शरीरं समुपादातुं ङ । ७. प्राचुर्याद् दण्डादि० ग च । ८. ०ति व्याप्नोति तदु० ग । ९. मंथंतरय त्ति क च, मंथंतरे य त्ति ग घ ङ। १०. दुगातिया छ । ११. भोउणज्ज ख, भोअणऽज्ज छ ठ ।