________________
१८२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
न ह्यन्धः प्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति ।
अनयैव दिशा मिश्रद्रव्येऽप्येकत्वसंयोजना स्वबुद्ध्या कार्येति गाथार्थः ॥१८॥
तदेवं द्रव्य-गुणयोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः-तत् 5 किमिदानीमभेदोऽस्तु ? नैतदप्यस्ति, यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनै
वेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं स्यात्, तथाहि-चूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूतावयविद्रव्याव्यतिरिक्तरसादेरप्युपलब्धिः स्याद् रूपादिस्वरूपवद्, एवं ह्यभेदः स्याद् यदि रूपादौ समुपलभ्यमानेऽन्येऽपि
समुपलभ्येरन्, अन्यथा विरुद्धधर्माध्यासाद भिद्येरन् घट-पटवदिति । तदेवं भेदा10 ऽभेदोपपत्तिव्याकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषोपपत्तिदर्शनात् कथं
गृह्णीमः ? आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि-गुण-गुणिनोः पर्याय-पर्यायिणोः सामान्यविशेषयोरवयवा-ऽवयविनोधैंदा-ऽभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि
दव्वं पज्जवविजुयं दव्वविउत्ता य पज्जवा नत्थि । 15
उप्पाय-ट्ठिइ-भंगा हंदि दवियलक्खणं एयं ॥ [ ] नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥
[बृहत्स्वयम्भूस्तोत्रे] इत्यादि । स्वयूथ्यैरत्र बहु विजृम्भितमित्यलं विस्तरेण । एनमेव 20 नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणमभेदेन व्यवस्थितमाह
संकुचिय-वियसियत्तं एसो जीवस्स होइ जीवगुणो । पूरेइ हंदि लोगं बहुप्पएसत्तणगुणेणं ॥१८१॥
१. ०दोपपत्तिभिर्व्याकु० ख ग च । २. दोषापत्तिदर्शनात् च। ३. ०वात्मसद्भावात् ख । ४. आह हि इति गआदर्श नास्ति । ५. उप्पायठिईभंगा ख ग । ६. ०भंगा इई हंदि( ?) ग। ७. स्यात्पदलाञ्छना इमे, रसो० ख, स्यात्पदलाञ्छिता इमे ग घ ङ च, "द्वितीयाध्ययने ३०१-स्यात्पदरूपं यत् सत्यं(त्वं?) तेन लाञ्छिताः'' स०वि०प० । ८. एवमेव घ ङ।