________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः १८१ समुच्चारिते निक्षेपनियुक्त्यनुगमेन तदवयवे निक्षिप्ते सति उपोद्घातनिर्युक्तेरवसरः, सा च उद्देसेत्यादिना द्वारगाथाद्वयेनानुगन्तव्या । साम्प्रतं सूत्रस्पर्शनिर्युक्तेरवसरः, तत्रापि सुगमनाम-स्थापनाव्युदासेन द्रव्यादिकमाह
दव्वगुणो दैव्वं चिय गुणाण जं तम्मि संभवो होइ । सच्चित्ते अच्चित्ते मीसम्मि य होइ दव्वम्मि ॥१८०॥
दव्वगुणो० गाहा । तत्र द्रव्यगुणो नाम द्रव्यमेव । किमिति ? गुणानां यतो गुणिनि तादात्म्येन सम्भवात् । ननु च द्रव्य-गुणयोर्लक्षण-विधानभेदाद् भेदः, तथा च द्रव्यलक्षणम्- गुण-पर्यायवद् द्रव्यम्, विधानमपि धर्मा-ऽधर्माऽऽकाश-जीव-पुद्गलादिकमिति । गुणलक्षणम्- द्रव्याश्रयिणः सहवर्तिनो निर्गुणा गुणा इति, विधानमपि ज्ञानेच्छा-द्वेष-रूप-रस-गन्ध-स्पर्शादयः 10 स्वगतभेदभिन्ना इति । नैष दोषः, यतो द्रव्ये सचित्ता-ऽचित्त-मिश्रभेदभिन्ने स गुणस्तादात्म्येन स्थितः । तत्राचित्तद्रव्यं द्विधा-अरूपि रूपि च । अरूपिद्रव्यं त्रिधा–धर्मा-ऽधर्मा-ऽऽकाशभेदभिन्नम्, तच्च गति-स्थित्यवगाहदानलक्षणम्, गुणोऽप्यस्यामूर्तत्वाऽगुरुलघुपर्यायलक्षणः, तत्रामूर्तत्वं त्रयस्यापि स्वं रूपम्, न भेदेन व्यवस्थितम्, अगुरुलघुपर्यायोऽपि तत्पर्यायत्वादेव मृदो मृत्पिण्ड-स्थास- 15 कोश-कुशूल-पर्यायवत् । रूपिद्रव्यमपि स्कन्ध-तद्देश-प्रदेश-परमाणुभेदम्, तस्य च रूपादयो गुणा अभेदेन व्यवस्थिता भेदेनानुपलब्धेः, संयोगविभागाभावात् स्वात्मवत् ।
तथा सचित्तमप्युपयोगलक्षणलक्षितं जीवद्रव्यम्, न च तस्माद्भिन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्याचेतनत्वप्रसङ्गात् । तत्सम्बन्धाद्भविष्यतीति चेत्, 20 अनुपासितगुरोरिदं वचः, यतः
न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते । [ मी०श्लो॰वा०४७]
१. समुच्चरिते च । २. ०स्पर्शिकानिर्यु० च । ३. दव्व च्चिय छ । ४. तथाहि ख ग च । ५. तत्रारूपिद्रव्यं च । ६. स्वरूपम् घ-प्रती विना । ७. ०वियोगाभावात् ख । ८. ततो भेदे घ ङ , तद्भेदेन जी० च । ९. चे दे]तद् अनु० क । १०. "स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । न हि स्वतोऽसती शक्ति: कर्तुमन्येन पार्यते ।" इति संपूर्णः श्लोकः ।