________________
१८० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे लङ्कारे अवधारणे वा, निवर्तितुं श्रेय एव । किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोः ? इति दर्शयति-कामेत्यादि गाथार्धं सुगमम् ॥१७८।। गतो नामनिष्पन्नो निक्षेपः । साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति । तत्रास्खलितादिगुणोपेतं सूत्रानुगमे 5 सूत्रमुच्चारणीयम्, तच्चेदम्
[सू०६३ ] जे गुणे से मूलढाणे, जे मूलट्ठाणे से गुणे ।
इति से गुणट्ठी महता परितावेण वसे पमत्ते । तं जहामाता मे, पिता मे, भाया मे, भगिणी मे, भज्जा मे, पुत्ता
मे, धूता मे, सुण्हा मे, सहि-सयण-संगंथ-संधुता मे, 10 विवित्तोवकरण-परियट्टण-भोयण-अच्छायणं मे ।
इच्चत्थं गढिए लोए वसे पमत्ते अहो य राओ य परितप्पमाणे कालाकालसमुट्ठायी संजोगट्ठी अट्ठालोभी आलुंपे सहसक्कारे विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो ।
जे गुणे से मूलट्ठाणेत्यादि सूत्रम् । अस्य च निक्षेपनियुक्त्यनुगमेन 15 प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पञ्चदशधा निक्षेपः
दव्वे खेत्ते काले फल पज्जव गणण करण अब्भासे । गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥१७९॥
दव्वे खेत्ते० गाहा । नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणो गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः 20 भवगुणः शीलगुणः भावगुणश्चेति गाथासमासार्थः ।।१७९॥ तदेवं सूत्रानुगमेन सूत्रे
१. ०मुच्चारयितव्यम् ग च । २. ०ढाणे इत्यादि घ ङ ।