________________
१७९
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः आवस्सयस्स दसयालियस्स तह उत्तरज्झमायारे । त्ति सूक्तम् ।
विजयस्य तु निक्षेपं नाम-स्थापने क्षुण्णत्वाद् अनादृत्य द्रव्यादिकमाह-- दव्वं खेत्तमित्यादिना-द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्याद् द्रव्ये वा विजयः कटु-तिक्त-कषायादिना श्लेष्मादेर्नृपतिमल्लादेर्वा । क्षेत्रविजयः षट्खण्डभरतादेः, यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते । कालविजय इति कालेन विजयः, यथा- 5 षष्टिभिर्वर्षसहस्रैर्भरतेन जितं भरतम्, कालस्य प्राधान्यात्, भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् वा काले विजयो व्याख्यायत इति । भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः ।
तदेवं लोक-विजययोः स्वरूपमुपदर्य प्रकृतोपयोग्याह-भवेत्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः, छन्दोभङ्गभीत्या हुस्व एवोपादायि, 10 तथा चावाचि-भावे कसायलोगो अहिगारो तस्स विजएणं [गा० १७६] ति, तस्य
औदयिकभावकषायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम्, इदमत्र हृदयम्-अष्टविधलोक-षड्विधविजययोः प्राग्व्यावर्णितस्वरूपयोर्भावलोक-भावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोक: प्राणिगणो बध्यते, बन्धस्योपलक्षणत्वाद् यथा च मुच्यत इत्येत- 15 दप्यत्राध्ययने प्रकृतमिति गाथार्थः ॥१७७।। तेनैव भावलोकविजयेन किं फलम् ? इत्याह
विजिओ कसायलोगो सेयं खु तओ नियत्तिउं होइ । कामणियत्तमई खलु संसारा मुँच्चई खिप्पं ॥१७८॥ सूत्रम्
विजिओ० गाहा । विजितः पराजितः, कोऽसौ ? कषायलोक: 20 औदयिकभावकषायलोक इति यावत् । विजितकषायलोकः सन् किमवाप्नोति ? इत्याह-संसारान्मुच्यते क्षिप्रम् । अतस्तस्माद् निवतितुं श्रेयः, खुः वाक्या
१. दसकालियस्स ख ग । २. सूत्रम् च । ३. ०न भरतं जितम् ख । ४. अत्र भव० ख । ५. विजययोगत एतदत्र च । ६. इति तदप्य० क । ७. नियत्तिओ ख ज झ । ८. मुच्चए ज। ९. विजा जि)ओ कसाएत्यादि । विजितः ख ।