________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः
लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स । निक्खेवो कायव्वो जम्मूलागं च संसारो ॥१७४॥
5
लोगस्स य० गाहा कण्ठ्या, केवलं जम्मूलागं च संसारो इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः । तच्च मूलं कषायाः, यतो नारकतिर्यङ्-नरा -ऽमरगतिस्कन्धस्य गर्भनिषेक-कलला -ऽर्बुद-मांसपेश्यादि - जन्म - जरा-मरणशाखस्य दारिद्र्याद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाऽप्रियसम्प्रयोगा-ऽर्थनाशा - ऽनेकव्याधिशतपुष्पोपचितस्य शारीर- मानसोपचिततीव्रतरदुःखोपनिपातफलस्य संसारतरो: मूलम् आद्यं कारणं कषायाः, कषः संसारः तस्याऽऽयाः इति कृत्वा ॥ १७४॥ तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रालापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि निर्युक्तिकृत् सुहृद् भूत्वा 10 विवेकेनाचष्टे
&
लोग त्तिय विजउ त्ति य अज्झयणे लक्खणं तु निष्कण्णं । गुण मूल द्वाणं ति य सुँत्तालावेण निप्फण्णं ॥१७५।।
१७७
लोगो तिय विजयो त्ति य० गाहा कण्ठ्या ॥ १७५ ॥ तत्र यथोद्देशस्तथा निर्देशः इति न्यायाद् लोक-विजययोर्निक्षेपमाह
लोगस्स येँ निक्खेवो अट्ठविहो छव्विहो ये विजयस्स । भावे कसायलोगो अहिगारो तस्स विजएणं ॥ १७६ ॥
15
लोगस्स य० गाहा । तत्र लोक्यत इति लोकः, लोक दर्शने [पा०धा० ७६] इत्येतस्य धातो: ‘अकर्तरि च कारके संज्ञायाम्' [पा० ३-३-१९] इति घञ् । स च धर्मा-ऽधर्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकॅटिन्यस्तकर- 20
१. नवरं च । २. संसार खप्रतेर्विना । ३. " अर्बुद इति स्त्यानम्' " जै०वि०प० । ४. दारिद्राद्यनेक० ग । ५. ० व्यसनोपात्तपत्र० घ ङ । ६. संसारमहातरोः ख । ७. मूलकम् घ । ८. नियुक्तिकारः ख च । ९. लोगो ख ज ठ । १०. विजय ठ । ११. अज्झयणस्स क । १२. चियख । १३. सुत्तालावे य नि० ख ज ठ । १४. वि अपुस्तकमृते । १५. उ ख । १६. इत्यस्माद्धातोः ख च इत्यस्य धातो: ग । १७. ०व्यवस्थितमशेष० ख । १८. ० कटिस्थकर० क घ ङ ।