________________
१७६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे पिया मेत्यादि । अदढत्तं बीयगम्मि त्ति द्वितीयोद्देशके अदृढत्वं संयमे न कार्यमिति शेषः, विषय-कषायादौ चादृढत्वं कार्यमिति, वक्ष्यति च–अरइमाउट्टे मेहावी । तृतीयोद्देशके माणो य अत्थसारो य त्ति जात्याद्युपेतेन साधुना
कर्मवशाद् विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च-के 5 गोआवादी के माणावादीत्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च तिविहेण जा वि से मत्ता अप्पा वा बहुगा वेत्यादि । चतुर्थे तु भोगेसु त्ति भोगेष्वभिष्वङ्गो न कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च-थीहिं लोए पॅव्वहिए । पञ्चमे तु लोगणिस्साए त्ति त्यक्तस्वजन-धन-मान-भोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्तलोकनिश्रया विहर्तव्यमिति शेषः, 10 तथा च सूत्रम्-समुट्ठिए अणगारे इच्चाइ जाव परिव्वये । षष्ठोद्देशके तु लोए
अममिज्जया चेव लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वाऽपरसंस्तुतेऽसंस्तुते च न ममत्वं कार्यम्, पङ्कजवत् तदाधारस्वभावाऽनभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-जे ममाइयमई जहाइ से जहाइ ममाइयं
गाथातात्पर्यार्थः ॥१७३॥ 15 नामनिष्पन्ने तु निक्षेप लोकविजय इति द्विपदं नाम । तत्र लोकविजययोनिक्षेपः कार्यः । सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः । सूत्रपदोपन्यस्तमूलशब्दस्य च कषायाभिधायकत्वात् कषाया निक्षेप्तव्याः । तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपाक्षिप्तं सामर्थ्यायातं च यद् निक्षेप्तव्यं तद् नियुक्तिकारो गाथया 20 सम्पिण्ड्याचष्टे
१. मे इत्यादि घ ङ च । २. द्वितीय उद्दे० ख च । ३. ०मिति सम्बन्धः, विषय० क घ ङ, ०मिति सम्बन्धः, शेषविषय० ग च । ४. ०कषायादावदृढत्वं क ग च । ५. अरई आउट्टे ख च, अरइमाउट्ट ग घ ङ। ६. तृतीय उद्दे० च । ७. च इति क-खप्रत्योरेव । ८. च ग घ ङ। ९. धीहिं घ, थीभि च । १०. पवहिए क । ११. ०देहपरिपालनाय घ ङ। १२. ०रे त्ति इच्चाइ क ग घ ङ। १३. ०मई से क ध । १४. जहाय ग । १५. जहाय घ । १६. च क ग। १७. ततो ख । १८. कषायाश्च निक्षे० च । १०. ०निष्पन्न-भवि० घ ङ। २०. निक्षेपोक्षिप्तं ग, निक्षेपोपक्षिप्तं च ।