________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः १७५ क्षयान्वयव्यतिरेकगतेरर्भकशरीरवत्, अपरप्रेरिताप्रतिहतानियततिरश्चीनगमनाद् गवाश्वादिवत्, सालक्तकनूपुरालङ्कारकामिनीचरणताडनविकाराधिगतेः कामुकवत्, इत्यादिभिः प्रयोगैः, तथोच्चैः शिर उद्घाट्य सूक्ष्म-बादर-द्वि-त्रि-चतुःपञ्चेन्द्रियसंज्ञीतर-पर्याप्तका-ऽपर्याप्तकभेदांश्च प्रदर्श्य, शस्त्रं च स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य, पुनरपि तदेव चारित्रं यथा 5 सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, तथाहि-अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिविशुद्धस्य तद्योग्यतयारोपितपञ्चमहाव्रतभारस्य साधोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते । तथा च नियुक्तिकारेणाध्ययनार्थाधिकार: 10 शस्त्रपरिज्ञायां प्राग् निरदेशि-"लोगो जह बज्झइ जह य तं विजहियव्वं" (गा० ३३) इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनम् अनुयोगः, तस्य द्वाराणि उपायाः व्याख्यानानीत्यर्थः, तानि चोपक्रमादीनि । तत्रोपक्रमो द्वेधा-शास्त्रानुगतः शास्त्रीयः, लोकानुगतो लौकिक इति । निक्षेपस्त्रेधा-ओघ-नाम-सूत्रालापकनिष्पन्नभेदात् । अनुगमो द्वेधा- 15 सूत्रानुगमो नियुक्त्यनुगमश्च । नया नैगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च । तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराह
संयणे अदढत्तं बीयगम्मि माणो य अत्थसारो य । 20 भोगेसु लोगणिस्साएँ लोगें अममिज्जता चेव ॥१७३॥
सयणे त्ति० गाहा । तत्र प्रथमोद्देशकार्थाधिकार: स्वजने माता-पित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्यः इत्यध्याहारः, तथा च सूत्रम्-माया मे
१. ०धिशुद्धस्य ख च । २. तद्योगतया० क च । ३. तं पि जहियव्वं क ग । ४. ०व् तीत्यनेन ख च । ५. निक्षेपस्त्रिधा ग घ ङ च । ६. निष्पत्तिभे० ख । ७. ०गमः सूत्रस्पर्शिकनियुक्त्य० ख । ८. उद्देशकार्था० ग । ९. सयणे य अद० झ । १०. बिइयगम्मि ठ । ११. ०णिस्सा लोगे झ-अप्रती विना । १२. चेय क । १३. सूक्तम् ङ।