SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १७४ 5 शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे द्वितीयमध्ययनं लोकविजयः । [ प्रथम उद्देशकः] जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिकं, विहितैकैकतीर्थनयवादसमूहवशात् प्रतिष्ठितम् । बहुतिथभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥१॥ नमः श्रीवर्द्धमानाय, वर्धमानाय पर्ययैः । उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने ॥२॥ शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृताः पूज्याः । 10 श्रीगन्धहस्तिमिश्रा विवृणोमि ततोऽहमवशिष्टम् ॥३॥ उक्तं प्रथममध्ययनम् । साम्प्रतं द्वितीयमारभ्यते । अस्य चायमभिसम्बन्धः-इह हि मिथ्यात्वोपशम-क्षय-क्षयोपशमान्यतरावाप्तसम्यग्दर्शनज्ञानकार्यस्याऽऽत्यन्तिकैकान्तानाबाधपरमानन्दस्वतत्त्वसुखानावरणज्ञान-दर्शन लक्षणलक्षितमोक्षकारणस्याऽऽश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य 15 चारित्रस्य अपराशेषव्रतवृतिकल्पनिष्पादितनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टन परितापनाऽपद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्मज्ञानोपलब्धेर्बार्हस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतनिरासेनैकेन्द्रियावनि-वना-ऽनल-पवन-वनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं समानजातीयाश्मलतायुद्भेददर्शनाद् अर्शोमांसाङ्करवत्, 20 अविकृतभूमिखननोपलब्धेर्मण्डूकवत्, विशिष्टाहारोपचया-ऽपचयशरीराभिवृद्धि १. वृत्तमिदं ख-चआदर्शयोर्नास्ति । २. नववाद० क । ३. बहुविधभङ्गि० घ । ४. "पर्या( 8 )यैः इति ज्ञानादिकैः ॥छ।। प्रथमम् ॥छ।।" जै०वि०प० । ५. "वृताः इति वृतवन्तः' जै०वि०प०, वृतं पूज्यैः । श्रीगन्धहस्तिमित्रैर्विवृणोमि च । ६. "ततः इति गन्धहस्तिविवरणविशेषात्'' जै०वि०प०, ततोऽहमविशिष्टम् क-खप्रती ऋते । ७. प्रथमाध्ययनम् ख च। ८. “स्वतत्त्व इति आत्मपरिज्ञाने'' जै०वि०प० । ९. ०स्य च चारि० च । १०. "अपर इति मृपावादादि' जै०वि०प० । ११. ०गुणात्मज्ञानो० ख। १२. अधिकृत० घ ङ च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy