________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । सप्तम उद्देशकः १७३ रभिदधाति-गणस्तव कोटिकः, स्थानीयं कुलम्, वैरा शाखा, अमुकाभिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवर्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति । पश्चादाचाम्लं निर्विकृतं वा स्वगच्छसन्ततिसमायातमाचरन्तीति ।
एवमेतदध्ययनमादि-मध्या-ऽन्तकल्याणकलापयोगि भव्यजनमनः- 5 समाधानाधायि प्रियविप्रयोगादिदुःखावर्तबहुलकषायझषादिकु लाकुलविषमसंसृतिसरित्तारणसमर्थममलदयैकरसमसकृदभ्यसितव्यं मुमुक्षुणा ।
इति आचार्यश्रीशीलाङ्कविरचिता शस्त्रपरिज्ञाध्ययनटीका समाप्ता ॥छ।। ग्रन्थाग्रेण द्वाविंसतिशतान्येकविंशत्यधिकानि, अङ्कतोऽपि २२२१ ॥छ।।
१. वैराख्या शाखा कपुस्तकेन विना । २. अमुकाभिध आ० ख । ३. रत्नाधिकीभवन्ति च । ४. निर्विकृतिकं ख ग । ५. ०चरतीति टु व । ६. ०जनतामनः० ख ग च । ७. ०बहल० ख । ८. ०झषादिकुलवि० च । ९. ०विषयसं० क । १०. ०विरचितशस्त्र० क घ ङ। ११. ०टीका परिसमाप्तेति ।।छ।। ग्रन्थाग्रम् २२२१ ॥छ।। ख। १२. समाप्तेति ।।छ।। श्री।। ग्रन्था० ङ, समाप्तेति ॥छ।। ग्रन्थाग्रम् २३२१ ।। च । १३. ०ण पञ्चविंश[तिशतान्येकविंश ] त्यधिकानि, अङ्कतोऽपि २५२१ ॥छ।। ग ।