________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
ऽपायगर्भमादि-मध्या-ऽवसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः, शिक्षकेणार्थतश्चावधृतं भवति, श्रद्धान-संवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनं परीक्ष्य निशीथाद्यभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वं यथाविधि कार्यम् ।
5
१७२
कः पुनरुपस्थापने विधिः ? इत्यत्रोच्यते - शोभनेषु तिथि - करण-नक्षत्रमुहूर्तेषु द्रव्य-क्षेत्र - भावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्धमानाभि: स्तुतिभिः, अथ पादपतितोत्थितः सूरिः सह शिष्येण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्सार्यैकैकं महाव्रतमादित आरभ्य त्रिरुच्चारयेद् यावद् निशिभक्तविरतिरविकला त्रिरुच्चरिता । पश्चादिदं त्रिरुच्चरितव्यम् - इँच्चेइयाइं पंच महव्वयाइं 10 राईभोयणविरमणछट्ठाई अंत्तहियट्ठाए उवसंपज्जित्ता णं विहरामि । पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्तेऽवनताङ्गयष्टिः 'संदिशत किं भणामि ?' इति । सूरिः प्रत्याह–वन्दित्वाऽभिधत्स्वेति । एवमुक्तोऽभिवन्द्योत्थितो भणति–युष्माभिर्मम महाव्रतान्यारोपितानि, इच्छाम्यनुशिष्टिमिति । आचार्योऽपि प्रणिगदतिनिस्तारकपारगो भवाचार्यगुणैर्वर्धस्व, वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं 15 शिष्यशिरसि किरति । पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्यं नमस्कारमावर्तयन्, पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम्, एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः । साध्वश्चास्य मूर्ध्नि युगपद्वासमुष्टीर्विमुञ्चन्ति सुरभिपरिमलाः, यतिजनसुलभकेसराणि वा । पश्चात् कारितकायोत्सर्ग: सूरि
२३
१. शिष्यकेणा० च । २. श्रद्धा - सं० ग । ३. ०दात्मीभूतं क । ४. ०स्थापनां च । ५. परीक्ष्य निरीक्ष्य निशी० ग । ६. ०मध्ये गमना० ख । ७. ०स्थापनविधिः क । ८. ०णनक्षत्रेषु मुहू० ग ०ण मुहूर्त - नक्षत्रेषु द्र० च । ९. ० वन्द्य वर्ध० क । १०. शिक्षकेण ख च। ११. ०व्रताधिरोपण० ख । १२. त्रिरुच्चार्य या० ख, त्रिरुच्चारयन् यावद् निशिभुक्तिविरति० ग । १३. त्रिरुच्चारिता ग । १४. इच्चेयाइं घ ङ च । १५. ०णवेरमण० कप्रतिमृते । १६. अत्तहियट्टयाए क चपुस्तके विना । १७ एव[ मुक्तो ]व (वं )दित्वाऽभिवन्द्यो० ङः । १८. ०पारको क । १९. ०वासपूर्णमुष्टिं च । २०. ०मुष्टिं च शिष्यस्य शिरसि ग । २१. विरमति शेषाः साधव० च । २२. ०मुष्टिं विमुचन्ति सुरभिपरिमलाम्, ख ग च, ० मुष्टीर्मुञ्चन्ति घ ङ । २३. " केशराणि इति पद्मकेशराणि" जै०वि०प०, "केसराणि कुंकुमकेसरव्यतिरिक्तं हट्टे द्रव्यम् । समाप्तं प्रथमाध्ययनम् ||" स०वि०प० ।