________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । सप्तम उद्देशकः
१७१ हयं नाणं कियाहीणं, हया अण्णाणओ किया । पासंतो पंगुलो दड्डो, धावमाणो वि अंधओ ॥ [ ]
तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यारूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्एवं सव्वे वि नया मिच्छादिट्ठी सपक्खपडिबद्धा ।
5 अन्नोन्नमीसिया उण हवंति ते चेव सम्मत्तं ॥ [ ]
तस्माद् उभयं परस्परसापेक्षं मोक्षप्राप्तयेऽलम्, न प्रत्येकं ज्ञानं चरणं चेति । निर्दोषः खल्वेष पक्ष इति व्यवस्थितम् । तथा चोभयप्राधान्यदिदर्शयिषयाऽऽह
सव्वेसि पि नयाणं बहुविधवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरण-गुणट्ठिओ साहू ॥ [ ]
चरणं च गुणश्च चरण-गुणौ, तयोः स्थितश्चरण-गुणस्थितः । गुणशब्दोपादानाद् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानाख्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः । अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङ्क्षपाद् ज्ञान-चरणयोरेव स्थातव्यमिति निश्चयो विदुषाम् । 15 न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात्, अन्धगतिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, न च ज्ञानमात्रेणाभीष्टप्राप्ति:, क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपङ्गपुरुषसामिदग्धनगरमध्यव्यवस्थितयथावस्थितर्शिज्ञानवत् । तस्मादुभयं प्रधानम्, नगरदाहनिर्गमे पङ्ग्वन्धसंयोगक्रिया-ज्ञानवत् ।
एवमिदमाचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणा- 20
10
१. य ख घ ङ, उ ग, अ च । २. मिथ्यात्वरूप० ख ग च । ३. मिच्छद्दिट्ठी ख च । ४. मिस्सिया ख, निरिसया च । ५. पुण घ ङ। ६. त च्चेव च । ७. ०गुणे ट्ठिओ क । ८. तयोर्व्यवस्थितश्चर० ख । ९. अन्धगमिक्रिया० घ ङ च, अन्धगामिक्रिया ग । १०. ०पुरुषअर्धदग्ध० ख घ ङ च । ११. ०सामिऽर्धदग्ध० क, अत्र टिप्पणीभूतः ऽर्ध इति पाठः कप्रतिलेखकेन भ्रान्त्या मूले लिखितः प्रतिभाति, “सामि इति अर्धम्'' जै०वि०प०, “सामि दग्धनगरम् अर्धनगरं दग्धम्" स०वि०प० । १२. ०दर्शितज्ञान० ग ङ। १३. ०जीवकाय० ख । १४. रक्षणोपाय० क-खप्रती विना ।