________________
१७०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गतूने
मेधावी मर्यादावर्ती नैव स्वयं षड्जीवनिकायशस्त्रं स्वकाय - परकायादिभेदं समारभेत, नैवान्यैः समारम्भयेत्, न चान्यान् समारभमाणान् समनुजानीयात् । एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकायशस्त्रसमारम्भास्तद्विषयाः पापकर्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च स एव मुनिः, 5 प्रत्याख्यातकैर्मत्वात् प्रत्याख्याताशेषपापागमत्वात्, तदन्यैवंविधपुरुषवदिति । इतिशब्दः अध्ययनपरिसमाप्तिप्रदर्शनाय । ब्रवीमि इति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्धमानस्वामिन उपदेशात् सर्वमेतदाख्यातं यदतिक्रान्तं मयेति।
उक्तः सूत्रानुगमो निक्षेपश्च ससूत्रस्पर्शनिर्युक्तिः । सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः । सङ्क्षेपतस्तु सर्वेऽप्येते द्वेधा-ज्ञाननयाश्चरणनयाश्च । तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमित्यध्यवस्यन्ति, हिता-ऽहितप्राप्तिपरिहारकारित्वाद् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणाच्च ज्ञानमेव, न तु क्रिया । चरणनयास्तु चरणस्य प्राधान्यमभिदधति, अन्वय-व्यतिरेकसमधिगम्यत्वात् 15 संकलपदार्थानाम्, तथाहि - सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसिते न चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्च मोक्षालाभः, तस्माद् न ज्ञानं प्रधानम्, चरणे पुनः संति मूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् के वलावबोधप्राप्ति:, ततश्च यथाख्यातचारित्रवह्निज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः, तदुच्छेदाद् अव्यावाधसुखलक्षणमोक्षावाप्तिरिति, तस्मात् 20 चरणं प्रधानमित्यध्यवस्यामः । अंत्रोच्यते-उभयमप्येतन्मिथ्यादर्शनम्, यत
उक्तम्—
10
१. मर्यादावान् ख च । २. ०जीवकाय० क घ ङ । ३. पापक्रियाविशेषाः ख ग च । ४. ०कर्मकत्वात् ग । ५. प्रदर्शनार्थः ख । ६. ० नीतघाति० ग । ७. सर्वेऽप्येते द्वेधा भवन्ति - ज्ञान० ख च । ८ द्वेधीभवन्ति - ज्ञान० ग । ९. सर्वपदा० ख च । १०. सति सर्वमूलोत्तर० ग च । ११. ०लक्षणा मोक्षा० ख ग । १२. प्रधानमध्य० ख । १३. तत्रोच्य क ङ । १४. उभयमेतन्मि० ख ।