________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । सप्तम उद्देशकः
१६९ षड्जीवनिकायहनननिवृत्तः । वसुमान्-वसूनि द्रव्य-भावभेदाद् द्विधा, द्रव्यवसूनि मरकतेन्द्रनील-वज्रादीनि भाववसूनि सम्यक्त्वादीनि, तानि यस्य यस्मिन् वा सन्ति स वसुमान् द्रव्यवानित्यर्थः । इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते। प्रज्ञायन्ते यैस्तानि प्रज्ञानानि यथावस्थितविषयग्राहीणि ज्ञानानि, सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञानः सर्वाव- 5 बोधविशेषानुगतः, सर्वेन्द्रियज्ञानैः पटुभिर्यथावस्थितविषयग्राहिभिरविपरीतैरनुगत इति यावत्, तेन सर्वसमन्वागतप्रज्ञानेनात्मना । अथवा सर्वेषु द्रव्य-पर्यायेषु सम्यगनुगतं प्रज्ञानं यस्यात्मनः स सर्वसमन्वागतप्रज्ञान आत्मा, 'भगवद्वचनप्रामाण्यादेवमेतद् द्रव्य-पर्यायजालं नान्यथा' इति सामान्य-विशेषपरिच्छेदाद् निश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा शुभा- 10 ऽशुभफलसकलकलापपरिज्ञानाद् नरक-तिर्यङ्-नरा-ऽमर-मोक्षसुख-स्वरूपपरिज्ञानाच्च, अपरितुष्यन्ननैकान्तिकादिगुणयुक्ते संसारसुखे, मोक्षानुष्ठानमाविःकुर्वन् सर्वसमन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना । अकरणीयम् अकर्तव्यमिह-परलोकविरुद्धत्वाद् अकार्यमिति मत्वा नान्वेषयेत् न तदुपादानाय यत्नं कुर्यादित्यर्थः । किं पुनस्तदकरणीयं नान्वेषणीयम् ? 15 इत्युच्यते-पापं कर्म, अध:पतनकारित्वात् पापम्, क्रियत इति कर्म । तच्चाष्टा देशविधं प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुन-परिग्रह-क्रोध-मानमाया-लोभ-प्रेम-द्वेष-कलहा-ऽभ्याख्यान-पैशून्य-परपरिवाद-रत्यरति-मायामृषा-मिथ्यादर्शनशल्याख्यमिति । एवमेतत् पापमष्टादशभेदं नान्वेषयेत् न कुर्यात् स्वयम्, न चान्यं कारयेत्, न कुर्वाणमन्यमनुमोदेत । एतदेवाह
तं परिन्नाय मेहावीत्यादि । तत् पापमष्टा देशप्रकारं परि समन्ताद् ज्ञात्वा
१. ०जीवकाय० च । २. ०नील-वैडूर्य-वज्रा० ख । ३. ०दीनि यस्य क । ४. आत्मेत्युच्यते, अथवा शुभाशुभफले भागवद्वचन० च । ५. नारक० ख-ङप्रतिभ्यामृते। ६. ०तिर्य-मनुष्या-ऽमर० ख च । ७. ०मोक्षस्वरूप० च । ८. नोऽन्वेषयेत् ख । ९. नान्वेषितव्यम् ख च । १०. ० दशभेदं ख च । ११. ०वाद-मायामृषा-रत्यरति-मिथ्या० घ दु: ०वाद-रति-अरति-मिथ्या० (?) क । १२. ०मष्टादशविधं नान्वेषयेत् नो कुर्यात् स्वयम्, न कारयेदन्यम्, न कुर्वाणमप्यनुमोदेत ख । १३. ० दशधा परि:- सर्वतो ज्ञात्वा ख च । १४. परिः ग।