________________
१६८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
जे आयारे न रमंति, ये ह्यविदितपरमार्था ज्ञान-दर्शन-चरण-तपोवीर्याख्ये पञ्चप्रकारे आचारे न रमन्ते न धृतिं कुर्वन्ति, तदधृत्या च पृथिव्याद्यारम्भिणः तान् कर्मभिरुपादीयमानान् जानीहि । के पुनराचारे न रमन्ते ? शाक्य-दिगम्बर-पार्श्वस्थादयः । किमिति ? यत आह
आरंभमाणा विणयं वयंति, आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनयं संयममेव भाषन्ते । कर्माष्टकविनयनाद् विनयः संयमः । शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमे वा तदाश्रितारम्भित्वाद् ज्ञानाद्याचारविकलत्वेन नष्टशीला इति । किं
पुनः कारणं येनैवं ते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते ? इत्यत 10 आह
छंदोवणीया अज्झोववन्ना, छन्दः स्वाभिप्राय इच्छामात्रमनालोचितपूर्वा-ऽपरं विषयाभिलाषो वा तेन छन्देन उपनीताः प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते । अधिकम् अत्यर्थम् उपपन्नाः तच्चित्तास्तदात्मका
अध्युपपन्ना विषयपरिभोगायत्तजीविता इत्यर्थः । य एवं विषयाशाकर्षितचेतसस्ते 15 किं कुर्युः ? इत्याह
आरंभसत्ता पंगरंति संगं, आरम्भणमारम्भः सावद्यानुष्ठानं तस्मिन् सक्ताः तत्पराः प्रकर्षेण कुर्वन्ति, सज्यते येन संसारे जीवः स सङ्गः अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसार:, आजवंजवी
भावरूपः, एवम्प्रकारमपायमवाप्नोति षड्जीवनिकायघातकारीति । अथ यो 20 निवृत्तस्तदारम्भात् स किंविशिष्टो भवति ? इत्यत आह
से वसुममित्यादि । स इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक्
१. पञ्चप्रकाराचारे ख ग च । २. ०न्ते निवृत्तिं कुर्वन्ति क । ३. ०दीन् विनयं क ग। ४. इत्याह ख । ५. छन्दे( न्द )सोपनीता: च । ६. पकरेंति ख ग च, पकरंति घ । ७. सज्यन्ते येन संसारे जीवाः स ङ। ८. संसार:, पुनस्तत्रैवोत्पत्ति: आजवं० ग, संसार:, पुनरपि तत्रैवोत्पत्ति: आजवं० घ ङ। ९. “अजीव( आजवं० ?) इति तत्रैव पुनः पुनर्भवनम्" जै०वि०प० । १०. ०मपायमाप्नोति ख च। ११. इत्याह घ ङ।