________________
5
१६४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
शुभफलमेवं च यो वेत्ति स खल्वध्यात्मं जानाति । एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्व-परसमुत्थं च शरीर-मनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमिमीते । यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिव्यपेक्षा ? यश्च बहिर्जानाति सोऽध्यात्मं यथावदवैति, इतरेतराव्यभिचारादिति । परात्मविज्ञानाच्च यद् विधेयं तद् दर्शयितुमाह
एयं तुलमण्णेसिमित्यादि । एतां तुलां यथोक्तलक्षणाम् अन्वेषयेद् गवेषयेदिति । का पुनरसौ तुला ? यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथा परमपि रक्ष, यथा परं तथाऽऽत्मानमिति । ऐतां तुलां तुलितस्व10 परसुखदुःखानुभवोऽन्वेषयेद्, एवं कुर्यादित्यर्थः, उक्तं च
15
कट्टेण कंटएण व पाए विद्धस्स वेयणट्टस्स । जा होइ अणिव्वाणी संव्वत्थ जिएसु तं जाण ॥ [
तथा
]
मरिष्यामीति यद् दुःखं पुरुषस्योपजायते । शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥ [ अतश्च यथाऽभिहिततुलातुलितस्व - परान्तराः स्थावर - संरक्षणायैव प्रवर्तन्ते । कथमिति दर्शयति
-जङ्गमजन्तु संङ्घात
]
इहेत्यादि । इह एतस्मिन् दयैकरसे जिनप्रवचने । शमनं शान्तिः उपशमः, प्रशम-संवेग-निर्वेदा - ऽनुकम्पा -ऽऽस्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शन-ज्ञान20 चरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात्, तामेवंविधां शान्तिं गताः प्राप्ताः शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः । द्रविका नाम राग-द्वेषविनिर्मुक्ताः, द्रवः संयमः सप्तदशविधानः कर्मकाठिन्य
१२
१. योऽवगच्छति स ख ग च । २. ०कायप्राणि० ख । ३. ०कायादिष्वपेक्षा कप्रतेर्विना । ४. परात्मपरिज्ञानाच्च ख च । ५. एनां ग । ६. ० परदुःखा० क । ७. जह ग । ८. " णायव्वा सव्वजीवाणं" इति चूर्णौ गाथातुर्यांशः । ९ तह खप्रत्या विना । १०. ० सङ्गाता व । ११० र प्रवचने ख । १२. ०द्वेषनिर्मुक्ताः क घ ङ ।