________________
१६३
10
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । सप्तम उद्देशकः तुम्ह वि कोइ पमादी ? सासेमि य तं पि, नत्थि भणइ गुरू । जइ होही तो साहे तुम्हि च्चिय तत्थ जाणेह ॥११॥ सेहो गए निवम्मी भणाइ ते साहुणो उ न पुणो त्ति । होहं पमायसीलो तम्हं सरणागओ धणियं ॥१२॥ जइ पुण होज्ज पमाओ पुणो ममं सड्भावरहियस्स । तुम्हं गुणेहिँ सुविहिय ! तो सावगरक्खसा मुच्चे ॥१३॥ आयंकयुब्विग्गो ताहे सो णिच्चउज्जओ जाओ । कोवियमती य समए रण्णा मरिसाविओ पच्छा ॥१४॥ दव्वायंकादंसी अत्ताणं सव्वहा णियत्तेइ । अहियारंभाउ सया जह सीसो धम्मघोसस्स ॥१५॥ [ ]
भावातङ्कदर्शी तु नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु प्रियविप्रयोगादिशारीर-मानसातङ्कभीत्या न प्रवर्तते वायुसमारम्भे, अपि तु अहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति । अतो य आतङ्कदर्शी भवति विमलविवेकत्वात् स वायुसमारम्भस्य जुगुप्सायां प्रभुः, हिता-ऽहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति । वायुकायसमारम्भनिवृत्ते: 15 कारणमाह
जे अज्झत्थमित्यादि । आत्मानमधिकृत्य यद् वर्तते तद् अध्यात्मम्, तच्च सुख-दुःखादि, तद् यो जानाति अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः स बहिरपि प्राणिगणं वायुकायादिकं जानाति । यथैषोऽपि हि सुखाभिलाषी दुःखाच्चोद्विजते यथा मयि दुःख मापतितमतिकटुकमसद्वेद्यकर्मोदयाद् 20 अशुभफलं स्वानुभवसिद्धम् एवं यो वेत्ति, स्वात्मनि सुखं च सवैद्यकर्मोदयात्
१. कोवि ख ग च । २. जो होही ग। ३. तुब्भे ख च । ४. तस्स ख ग च । ५. जाणिहिह क-गप्रती विना । ६. निवम्मि च । ७. भणती ग घ ङ । ८. पुण त्ति च । ९. तुब्भं च । १०. सट्टभाव० च । ११. तुब्भं ख च । १२. ०भउव्विग्गो कप्रति विना । . १३. ० उज्जुओ ग । १४. समते ग । १५. भावातङ्कादर्शी खप्रति विना । १६. ०विवेकभावात् स वायोः जुगु० ख च, ०विवेकभाग स वायुस० घ ङ । १७. दुःखादुद्विजते ग । १८. ०मापतितं कटुक ख। १९. ०कटुकासद्वेद्य० क ग । २०. ०द्यस्वकर्मोदयाद् घ ङ ।