SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे वियणेत्यादि । व्यजन- तालवृन्त- सूर्प- सित - पत्र - चेलकर्णादयः द्रव्यशस्त्रमिति । तत्र सितम् इति चामरम् । प्रस्विन्नो यद् बहिरवतिष्ठते वातागमनमार्गे साऽभिधारणा । तथा गन्धाः चन्दनोशीरादीनाम् । अग्नि [:] ज्वाला प्रतापश्च । तथा प्रतिपक्षवातश्च शीतोष्णादिकः । प्रतिपक्षवायुग्रहणेन स्वकायादि 5 शस्त्रं सूचितमिति । एवं भावशस्त्रमपि दुष्प्रणिहितमनो- वाक्- कायलक्षणमवगन्तव्यमिति ॥१७०॥ अधुना सकलनिर्युक्त्यर्थोपसेञ्जिहीर्षयाऽऽह— १६० सेसाई दाराई ताइं जाई हवंति पुढवीए । एवं वाउद्देसे निज्जुत्ती कित्तिया ऐसा ॥ १७२ ॥ प्रथमाध्ययनम् ॥छ। सेसाइमित्यादि । शेषाणि उक्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवी10 समधिगमे यान्यभिहितानीति । एवं सकलद्वारकलापव्यावर्णनाद् वायुकायोद्देशके निर्युक्तिः कीर्तितैषाऽवगन्तव्येति ॥ १७२॥ गतो नामनिष्पन्नो निक्षेपः । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्— [ सू०५६ ] पभू एजस्स दुगुंछणाए आतंकदंसी अहियं 15 ति णच्चा । जे अज्झत्थं जाणति से बहिया जाणति, जे बहिया जाणति से अज्झत्थं जाणति । एतं तुलमण्णेसिं । इह संतिगता दविया णावकंखंति जीविउं । इत्येतस्यायुक्तियुक्तत्वात्, भावशस्त्रानध्याहार्यं च सुष्ठु इति कृत्वा अस्मादुपयुक्तासु झ ञप्रतिवर्जासु पञ्चस्वपि प्रतिष्वेतद्गाथाखण्डोपलब्धेश्च टीकाकृदव्याख्यातोऽप्येष पाठो मूले स्थापितः । अनेन च १७० गाथान्तवर्तिनः 'वाउसस्थाई' इत्यस्य वायोः शस्त्राणि वायुशस्त्राणि इतार्थोऽधिगम्यः । १. प्रतिपक्षिवायु० क । २ ० सञ्जिहीर्षुराह ग । ३. एसा ॥ १७२ ॥ प्रथममध्ययनम् ख, एसा ।।१७२॥छ।। आयारस्स पढमज्झयणणिज्जुत्ती सम्मत्ता ॥छ । अ । ४. सेसा० इत्यादि ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy