________________
१६१
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । सप्तम उद्देशकः पहू एजस्स दुगुच्छणाए त्ति । अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्वकारणमभिहितम्, इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते । तथा परम्परसूत्रसम्बन्धः-इहमेगेसिं णायं भवइ त्ति, किं तद् ज्ञातं भवति ? पहू एजस्स दुगुंछणाए त्ति । तथाऽऽदिसूत्रसम्बन्धश्च सुयं मे आउसंतेणेत्यादि, किं तत् 5 श्रुतम् ? यत् प्रागुपदिष्टं तथैतच्च पहू एजस्स दुगुंछणाए त्ति । दुगुंछण त्ति जुगुप्सा । प्रभवतीति प्रभुः समर्थो योग्यो वा । कस्य वस्तुनः समर्थ इति ? एज़ कम्पने [पा०धा० २३४] एजतीति एजः वायुः कम्पनशीलत्वात्, तस्यैजस्य जुगुप्सा निन्दा तदासेवनपरिहारो निवृत्तिरिति यावत्, तस्यां तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीति यावत् । पाठान्तरं वा पभू य एगस्स दुगुंछणाए 10 उद्रेकावस्थावर्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षित इति एकः वायुस्तस्यैकविधस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः । चशब्दात् श्रद्धाने च प्रभुर्भवति, श्रद्धाय च जीवतया जुगुप्सते, ततः योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति
आयंकेत्यादि । तकि कृच्छ्रजीवने [पा०धा० ११८] इत्यातङ्कनम् आतङ्कः, 15 कृच्छ्रजीवनं दुःखम् । तच्च द्विविधम्-शारीरं मानसं च । तत्राद्यं कण्टक-क्षारशस्त्र-गण्ड-लूतादिसमुत्थम्, मानसं प्रियविप्रयोगा-ऽप्रियसम्प्रयोगेप्सितालाभदारिद्र्य-दौर्मनस्यादिकृतम् । एतदुभयमातङ्कः, ऐनमातङ्गं पश्यति तच्छीलश्चेत्यातङ्कदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे । ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्माद् निवर्तने 20
१. एज्जस्स च । २. ०रोद्देशकपर्यन्त० च । ३. तदारम्भपरिवर्जनं ख च । ४. इहमेगेसिं नो णयं भवइ त्ति, किं न ज्ञातं भवति ? ख । ५. आउसंतेणं इत्यादि ग । ६. दुगंछणाए घ च । ७. निवृत्तो भवतीति क, निवृत्तौ समर्थो भवतीति ग घ ङ । ८. स्पर्शनाख्येनो० घ ङ । ९. ०स्तस्यैकगुणोप० ग घ च । १०. प्रभुर्भवतीति ख च । ११. ०ति, अर्थाद् यदि श्रद्धाय जी० कप्रतिमृते । १२. जीविताय ख । १३. वायुकायारम्भ० घ ङ च । १४. कटुकक्षार-शस्त्र० ग च । १५. एतमातङ्कं ग ङ। १६. ततश्च तद्वायु० ग । १७. ज्ञात्वैतस्मिन् नि० घ ङ। १८. निवर्तते ख च ।