________________
१५८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे हिमपटलकल्पः । मन्दस्तिमित: शीतिकादिषु शुद्धवातः । ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगमन्तर्भावो द्रष्टव्य इति । एवम् एते बादरवायुविधाना भेदाः पञ्चविधाः पञ्चप्रकारा व्यावर्णिता इति ॥१६६॥ लक्षणद्वाराभिधित्सयाऽऽह
जह देवस्स सरीरं अंतद्धाणं च अंजणादीसु । एओवम आएसो वाएऽसंते वि रूवम्मि ॥१६७॥ दारं ॥
जह देवस्सेत्यादि । यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते, चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात् तथाभूतं रूपं कुर्वन्ति यत् चक्षुषा नोपलभ्यते, न चैतद् वक्तुं शक्यते–'नास्ति, अचेतनं च' इति, तद्वद् वायुरपि 10 चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति । यथा चाऽन्तर्धानमञ्जन-विद्या
मन्त्रैर्भवति मनुष्याणाम्, न च नास्तित्वमचेतनत्वं चेति, एतदपमानो वायावपि भवति आदेशः व्यपदेशोऽसत्यपि रूप इति । अत्र चाऽसच्छब्दो नाऽभाववचनः, किन्त्वसद्रूपं वायोरिति, चक्षुाह्यं तद्रूपं न भवति सूक्ष्म
परिणामात् परमाणोरिव, रूप-रस-गन्ध-स्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां 15 वायुः स्पर्शवानेवेति । प्रयोगार्थश्च गाथया प्रदर्शितः । प्रयोगश्चायम्-चेतनावान्
वायुः, अपरप्रेरिततिर्यगनियमितदिग्गतिमत्त्वाद्, गवाश्वादिवत् । तिर्यगेव गमननियमाभावाद् अनियमितविशेषणोपादानाच्च परमाणुनाऽनैकान्तिकासम्भवः, तस्य नियमितगतिमत्त्वात्, जीव-पुद्गलयोः 'अनुश्रेणि गतिः' [तत्त्वार्थ० २।२७] इति
वचनात् । एवमेष वायुः घन-शुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति 20 ॥१६७। परिमाणद्वारमाह
१. शीतकादिषु क, शीतकालादिषु ग ङ च, “शीतिका झटिका' स०वि०प० । २. "से किं तं बादरवाउकाइया ? बादरवाउकाइया अणेगविहा पण्णत्ता, तं जहा-पाईणवाए पडीणवाए दाहिणवाए उदीणवाए उड्ढवाए अहोवाए तिरियवाए विदिसीवाए वाउब्भामे वाउक्कलिया वायमंडलिया उक्कलियावाए मंडलियावाए गुंजावाए झंझावाए संवट्टवाए घणवाए तणुवाए सुद्धवाए, जे यावण्णे तहप्पगारा ।'' [प्रज्ञा० सू० १९] ३. एवमित्येते बादर० ग । ४. विधानानि भेदा: ख च । ५. एतोवमयाएसो ज । ६. यथा वाऽन्त० चपुस्तकमृते । ७. एतदुपमानेन वाया० ख। ८. ०परिमाणात् ख ग ङ।