SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । सप्तम उद्देशकः १५७ उक्तः षष्ठोद्देशकः । साम्प्रतं सप्तमः समारभ्यते । अस्य चायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वाद् अल्पपरिभोगत्वाद् उत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते । तदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि यावद् नामनिष्पन्ने निक्षेपे वायूद्देशक इति । तत्र वायोः स्वरूपनिरूपणाय कतिचिद्वारातिदेशगर्भा 5 नियुक्तिकृद् गाथामाह वाउस्स वि दाराई ताई जाइं हवंति पुढवीए । णाणत्ती उ विहाणे परिमाणुवभोग सत्थे य ॥१६४॥ वाउस्स वीत्यादि । वातीति वायुः, तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि । नानात्वं भेदः, तच्च विधान-परिमाण-उपभोग-शस्त्रेषु, 10 चशब्दाद् लक्षणे च द्रष्टव्यमिति ॥१६४॥ तत्र विधानप्रतिपादनायाह दुविहा य वाउजीवा सुहुमा तह बायरा य लोयम्मि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥१६५॥ दुविहेत्यादि । वायुरेव जीवा वायुजीवाः । ते च द्विविधाः-सूक्ष्मबादरनामकर्मोदयात् सूक्ष्मा बादराश्च । तत्र सूक्ष्माः सकललोकव्यापितया- 15 ऽवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्तधूमवद् व्याप्त्या स्थिताः । बादरभेदास्तु पञ्चैव अनन्तरगाथया वक्ष्यमाणा इति ॥१६५॥ बादरभेदप्रतिपादनायाह उक्कलिया मंडलिया गुंजा-घणवाय-सुद्धवाया य । बायरवाउविहाणा पंचविहा वण्णिया एए ॥१६६॥ दारं ॥ उक्कलिएत्यादि । स्थित्वा स्थित्वोत्कलिकाभियों वाति स उत्कलिकावातः । मण्डलिकावातस्तु वातोली । गुञ्जा भम्भा, तद्वद् गुञ्जन् यो वाति स गुञ्जावातः । घनवातः अत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो १. वायुस्स क-खप्रती विना । २. द्रष्टव्यम् ॥१६४।। क घ ङ। ३. उ क ठ । ४. उ ठ । ५. द्विधा-सूक्ष्म० ग । ६. ०तया तिष्ठन्ति ख । ७. इति इति कपुस्तके नास्ति ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy