________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । षष्ठ उद्देशकः
१५५
अस्थिमिञ्जास्वपि वाच्यम् । मांसार्थं सूकरादयः, त्रिशूलालैखार्थं शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मथ्नन्ति पित्तार्थं मयूरादयः, वसार्थं व्याघ्र - मकरवराहादयः, पिच्छार्थं मयूर-गृद्धादयः, पुच्छार्थं रोज्झादयः, वालार्थं चमर्यादयः, शृङ्गार्थं रुरु-खड्गादय:, तत् किल शृङ्गं पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं शृगालादयः तिमिरापहारित्वात् तद्दन्तानाम्, दंष्ट्रार्थं वराहादयः, नखार्थं व्याघ्रादयः, स्नाय्वर्थं गो-महिष्यादयः, अस्थ्यर्थं शङ्ख-शुक्त्यादयः, अस्थिमिञ्जार्थं महिष - वराहादयः । एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया घ्नन्ति । अपरे तु कृकलास- गृहको कुलिकादीन् विना प्रयोजनेन व्यापादयन्ति। अन्ये पुनः हिंसिसु मित्ति वेति हिंसितवानेषोऽस्मत्स्वजनान् सिंहः सर्पोऽरिर्वाऽतो घ्नन्ति मम वा पीडां कृतवन्त इत्यतो हन्ति । तथाऽन्ये 10 वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति । तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेवैं सर्पादिकं व्यापादयन्ति । एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्योद्देशकार्थमुपसञ्जिहीर्षुराह—
10
[सू०५३ ] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ।
[सू०५४ ] तं परिण्णाय मेधावी णेव सयं तसकायसत्थं समारभेज्जा, णेवऽण्णेहिं तसकायसत्थं समारभावेज्जा, णेवऽण्णे तसकायसत्थं समारभंते समणुजाणेज्जा ।
१. ०मिञ्जादिष्वपि ग च । २. शूकरा० ङ च । ३. ० लेख्यार्थं ग । ४. ०त्वा समश्नन्ति ख । ५. पिंच्छार्थं क । ६. रोज्जादयः व ङ । ७. शृङ्गं याज्ञिकाः पवित्रमिति गृ० च । ८. तिमिरापहत्वात् कप्रतेर्विना । ९. ०महिषादयः ग । १०. ०कोकिलकादीन् ग । ११. मे त्ति हिंसित ० ख ग च । १२. ०त्स्वजनकान् ख च । १३. ०व केसर्यादिकं ग, ०व सर्पादि
व्या० घ ङ ।
5
15
20