________________
१५२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे ब्रवीमि। तत्र दुःखयतीति दुःखम्, तद्विशेष्यते-किंविशिष्टम् ? असातम् असद्वैद्यकर्मीशविपाकजमित्यर्थः, तथा अपरिनिर्वाणम् इति समन्तात् सुखं परिनिर्वाणम्, न परिनिर्वाणमपरिनिर्वाणं समन्तात् शरीर-मन:पीडाकरमित्यर्थः, तथा महाभयम् इति महच्च तद् भयं च महाभयम्, नातः परमन्यदस्तीति महाभयम् तथाहि-सर्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति । इतिशब्द एवमर्थे, एवमहं ब्रवीमि सम्यगुपलब्धतत्त्वो यत् प्रागुक्तमिति । एतच्च ब्रवीमीत्याह छ ।
तसंतीत्यादि । एवंविधेन चासातादिविशेषणविशिष्टेन दुःखेनाभिभूताः त्रस्यन्ति उद्विजन्ते, प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्ते ? इत्याह–प्रगता 10 दिक् प्रदिग् विदिगित्यर्थः, ततः प्रदिशः सकासादुद्विजन्ते । तथा प्राच्यादिषु च दिक्षु व्यवस्थितास्त्रस्यन्ति । एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थानश्रवणात् । ततश्चायमर्थः प्रतिपादितो भवति काक्वा न काचिद् दिग् अनुदिग् वा यस्यां न सन्ति त्रसाः, त्रस्यन्ति वा न यस्यां स्थिताः कोशि
कारकीटवत् । कोशिकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च बिभ्यदात्मसंरक्षणार्थं 15 वेष्टनं करोति शरीरस्येति । भावदिगपि न काचित् तादृश्यस्ति यस्यां वर्तमानो
जन्तुर्न त्रस्येत्, शारीर-मानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जङ्घन्यन्ते प्राणिनः, अतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः । एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृह्णीमः । दिग-विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तम्, कुतः
पुनस्त्रस्यन्ति ? यस्मात् तदारम्भवद्भिस्ते व्यापाद्यन्ते । किं पुनः कारणं ते 20 तानारभन्ते ? इत्याह
तत्थ तत्थेत्यादि । तत्र तत्र तेषु तेषु कारणेषूत्पन्नेषु वक्ष्यमाणेषु अर्चाऽजिन-शोणितादिषु च पृथग् विभिन्नेषु प्रयोजनेषु, पश्य इति शिष्यचोदना । किं तद् ? इति दर्शयति-मांसभक्षणादिगृद्धा आतुराः अस्वस्थमनसः परि समन्तात्
१. ०करणमि० क । २. इति इति ख-घ-ङपुस्तकेषु न वर्तते । ३. ०लब्धसत्त्वो क । ४. त्रसन्ति च । ५. ०रुद्विजन्तीति दर्शयति-प्रगता ख ग च । ६. विदिश इत्य० ग । ७. ०दुद्विजन्ति ग च । ८. ०नुदिशो वा गृ० च । ९. स्त्रसन्ती० ग ङ। १०. अस्थ्यजिन० घ, "अर्चा इति शरीरम्" जै०वि०प० । ११. किं तत् पश्य ? इति दर्श० कप्रतिमृते ।