________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । षष्ठ उद्देशकः १५१ ऽतिस्थूलोऽतिकृशो वा । भावमन्दोऽप्यनुपचितबुद्धिर्बालः, कुशास्त्र-वासितबुद्धिर्वा, अयमपि सद्बुद्धेरभावाद् बाल एव । इह भावमन्देनाधिकारः । मन्दस्य इति बालस्याविशिष्टबुद्धेः अत एव अविजानतः हिता-ऽहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति । यद्येवं ततः किम् ? इत्यत आह
5 निज्झाइएत्यादि । एवमिमं त्रसकायमागोपाला-ऽङ्गनादिप्रसिद्धं निश्चयेन ध्यात्वा निर्ध्याय, चिन्तयित्वेत्यर्थः । क्त्वाप्रत्ययस्योत्तरक्रियापेक्षित्वाद् ब्रवीमीत्युत्तरक्रिया सर्वत्र योजनीयेति । पूर्वं च मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयतिपडिलेहित्ते(त्त?)त्ति प्रत्युपेक्ष्य दृष्ट्वा यथावदुपलभ्येत्यर्थः । किं तद् ? इति दर्शयति प्रत्येकम् इत्येकमेकं त्रसकायं प्रति परिनिर्वाणं सुखम्, 10 प्रत्येकसुखभाजः सर्वेऽपि प्राणिनः, नान्यदीयमन्य उपभुङ्क्ते सुखमित्यर्थः । एष च सर्वप्राणिधर्म इति दर्शयति-सर्वेषां प्राणिनां द्वि-त्रि-चतुरिन्द्रियाणाम्, तथा सर्वेषां भूतानां प्रत्येक-साधारण-सूक्ष्म-बादर-पर्याप्तका-ऽपर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां गर्भव्युत्क्रान्तिक-सम्मूर्छनज-औपपातिकपञ्चेन्द्रियाणाम्, तथा सर्वेषां सत्त्वानां पृथिव्यायेकेन्द्रियाणामिति । इह च 15 प्राणादिशब्दानां यद्यपि परमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्तं च
प्राणा द्वि-त्रि-चतुः प्रोक्ताः, भूतास्तु तरवः स्मृता । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वाः इतीरिताः । [ ]
यदि वा शब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा सततप्राणधारणात् प्राणाः, कालत्रयभवनाद् भूताः, त्रिकालजीवनाद् जीवाः, 20 सदाऽस्तित्वात् सत्त्वा इति । तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येकं परिनिर्वाणं सुखं तथा प्रत्येकमसातमपरिनिर्वाणं महाभयं दुःखमहं
१. ०प्यनुचित० ग घ । २. अजानतः च । ३. ०कायमाबाल-गोपाला० घ । ४. ०क्रियापेक्षया ब्रवी० ग । ५. पडिलेहित्ति त्ति ख ग । ६. जीवानामिति गर्भ० च । ७. सत्त्वानामिति पृ० ख च । ८. द्रष्टव्य इति, उक्तं ख च । ९. ०याः ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्तिताः च । १०. ०मताद् भेदोऽभ्युपगन्तव्यः, तद्यथा ख च । ११. यथा इति चपुस्तके नास्ति ।